SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ SENILAYASAHEBAR किमपि नास्ति, परं देहशङ्का निवर्तयितुमिच्छामि / तदैव सप्तमी सुदक्षा गुणसुन्दरी स्त्री भृङ्गारके जल लात्वा जगाद-नाथ ! उत्तिष्ठ, ततस्तया सह पुण्यसारस्तत्र बहिर्गतवान् / परमसौ दध्यो-एता हि मम ग्रामनामादिकं न विदन्ति / एतास्त्यक्त्वा यदि गमिष्यामि तहि परिणीतानामासां का गतिर्भविष्यति सर्वाश्च महादुःखिन्यो भविष्यन्ति / अतः किमपि सूचनीयं ततो गन्तव्यमिति ध्यात्वा तत्र कुड्ये तदैवं लिखित्वा नीचैरुदतरत् / तथाहि "क्यां गोवालय वल्लही, क्यां लम्बोदर देव / आव्यो बेटो वहि वसण, गयो सत्त परिणेव // 11 // अथ बहिरागतः स तामवादीत-अयि प्रेयसि ! त्वयात्रैव स्थीयताम् / अहं शौचं विधाय समागच्छामि, सा तत्राऽतिष्ठत / पुण्यसारस्तोत्रे वञ्चयनितस्ततः पश्यन् द्रुतं व्रजन वटवृक्षकोटरे तस्मिन्नतिष्ठत् / तावता नगरकौतुकं वीक्ष्य ते स्त्रियावपि तत्र वृक्षे समुपाविशताम् / मन्त्रप्रयोगेण क्षणादेव स वृक्षो गोपालपुरे निजस्थाने समागतवान् / ते वनिते निजालयं जग्मतुः। पश्चास्पुण्यसारोऽपि कोटरादहिय नगरकौतुकं विलोकमानः कुत्रापि चतुष्पथेऽतिष्ठत् / तावत्पुत्र शोधयन्पुरन्दरः श्रेष्ठी तत्राऽऽययो। पुत्रदर्शनादतिहृष्टीभूय पुत्रं गृहमनयत् / तत्र पिताऽपृच्छत्-हे वत्स ! त्वं कुत्राऽऽसी: ? अहं सर्वत्र विलोकयनैव त्वां कुत्राप्यपश्यम् / तदा सोऽवक्-हे पितः / त्वमेव निजगदिथ यद्राजकीयं स्थापितमाभरणमशेषमानीय देहि तदेव लातुमहं गत आसम्, ततो द्यूतकारिपार्श्वतः सर्वान्याभरणानि समानीय पित्रे ददौ / श्रेष्ठयपि वानि लात्वा नृपाय समर्पयत् / इतश्च वल्लभीपुरे सा गुणसुन्दरी तत्रैव चिरं स्थित्वा प्रारमपश्यन्ती तत्रागत्य ताः सर्वा अपि भगिनीस्तत्स्वरूपं न्यवदत् / समपातोपममुदन्तं श्रुत्वा विच्छायवदनाः सर्वा अपि चिखिदिरे / जाते च प्रभाते भित्तो तल्लिखितां गायां वाचयित्वा शातं
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy