SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पुण्यसारेण तदालोकि, अथान्यदा तदादाय ते पुण्यसारेण हारितम् / कियदिनानन्तरं राज्ञा मागिते तस्मिन् पुरन्दरो गृहमागत्य तत्र मञ्जूषायां समुद्घाटितायां तमाऽपश्यत्तदा स पुण्यसारमपृच्छत् / हे पुत्र ! मयाऽत्र त्वत्समक्षे राजकीयमाभरणं स्थापितम् / परमत्र तम पश्यामि किं त्वया नीतं तत् ? नृपोऽद्य मार्गयति-पुत्रोऽवक्-मयैव गृहीतम् / तदा पित्रोक्तं तदानीय देहि राज्ञे देयमस्ति / पितुर्वचनं श्रुत्वा तदैव स निजगृहाचिन्तातुरो निरगच्छत् ग्रामादहिरागतः स सन्ध्यां विलोक्य निशि कुत्र कथं व्रजेयमिति विचिन्त्य तत्रैकस्य वटवृक्षस्य कोटरे समुपविष्टः। इतश्च निशि पुत्रमपश्यन्ती तन्माता श्रेष्ठिनमवक्-वामिन् ! पुण्यसासक गतः ? श्रेष्ठी न्यगदत / मया राज्ञो लक्षमूल्यकमाभरणं स्थापितं तत्तेनाऽपहृतमतो मयैव शिक्षार्थ निष्काशितः। हा ! रात्रौ त्वया पुत्रो निष्काशितो धन्योऽसि, याहि, सत्वरं संशोध्य पुत्रमत्रानयेति भार्योक्त्या पुरन्दरः स्वयमेव सर्वत्र संशोधितुमलगत् / सर्वत्रैवान्विष्टोऽपि कुत्राऽपि तच्छुद्धिर्न लब्धा / इत्थं पुत्रं शोधयतस्तस्य सकला रजनी निरगात् / यदा नगरान्तस्तस्य शुद्धिर्न लब्धा तदा श्रेष्ठी प्रभाते जाते नगरादहिरितस्ततस्तं संशोधयन्नासीत् / इतश्च यधृक्षकोटरे स तस्थिवान, तवृक्षोपर्यागते द्वे स्त्रियो मिथ एवमालपितुं लग्ने। यथा तयोरेकाऽवक्-अयि सखि ! अद्य मे कस्याप्यद्भुतकौतुकस्य दिक्षा वर्तते। द्वितीयाऽवदत् कुन ? सावक-सखि ! इतश्चतुःशतक्रोशोपरि वल्लभीपुरनगरं वर्तते / तत्र धनप्रवरनामा महधिकः श्रेष्ठी निवसति, तस्य सप्तपुत्र्यो विद्यन्ते / ता युवतीः पश्यता पित्रा वरचिन्तां कुर्वता लम्बोदरो देवः | समाराधितः स प्रत्यक्षीभूय तमवोचत / अमुकमासे अमुकतिथौ निशि प्रथमयामे नगरद्वारे स्त्रीद्वयाऽऽगमनानन्तरमेक: | पुमान् महामाग्यवान सकलगुणवानागमिष्यति तस्मै त्वया सप्तव कन्या देयाः / इति हेतुना स सकलां विवाहसामी सज्जीचक्रे SUBSCRIBUSIR-USEBERRY
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy