SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अयंवर्ग: 2 मुक्तावली॥९९॥ गात् गृहागतं तं बहु सम्मेने। स्वागतप्रश्नानन्तरं सोऽपृच्छत् / भोः! स्वामिन् ! त्वदागमनेनाहमद्य स्वं धन्यं मन्ये, गृहं मे पवित्रमभूत् / अत आगमनप्रयोजनं ब्रूहि कार्यश्चेत्किमपि तदादिश / तेनोक्तं-भोः श्रेष्ठिवर्य ! मत्पुत्रेण सह तव पुत्र्या लग्नं यदि स्याचर्हि शोभनं भवेत् / एतदर्थमेवागतोऽस्मि, तच्छ्रुत्वा रत्नसारश्रेष्ठिना सहर्पमङ्गीचक्रे / परं तत्रस्था तत्पुत्री त्रपां विहाय जगादनहि नहि पुण्यसारमहं कदापि न वरिष्ये, तदन्यमेव वरिष्यामि / आजन्मकौमारव्रतिनी स्यामिति वरं तं तु स्वमेऽपि वरीतुं न कामये / तत्रावसरे मनसि दध्यौ पुरन्दरः / अहो! इदानीमेव यस्या ईदृशी निर्लज्जता साग्रे किमाचरिष्यति ? परं रत्नसारश्रेष्ठिना तदोक्तं-हे श्रेष्ठिवर्य ! इयं मे पुत्री मुग्धा किमपि न वेत्ति / अत एतद्वचनेन मा खियेथाः। अहमेनां परिबोध्य स्वीकारयिष्यामि त्वं मान्योऽसि, स्वदुक्तं सर्वेषां शिरोधार्य मम तु विशेषतः / इत्थमवसरोचितवचोभिः सत्कृतः पुरन्दरश्रेष्ठी निजालयमागात सर्वमपि पुत्राय न्यवेदयत् / तदा पुण्यसारो मनसि निश्चिक्ये यत्कदापि सा मा स्वेच्छया न वरिष्यति परमहं निजगोत्रदेव्या दत्तोऽस्मि / अत एतदर्थ सैव समागध्या साऽवश्यं मदीप्सितं पूरयिष्यति / इति निश्चित्य धूपदीपनैवेद्यादिभिः प्रत्यहं त्रिसन्ध्यं तां गोत्रदेवीमागधितुं लग्नः / अथैकदा तुष्टा देवी तं प्रत्यक्षीभूय जगाद-वत्स ! तवाराधनेन तुष्टाऽस्मि स्वेप्सितं प्रार्थय / सोऽवदत्हे मातः ! यदि प्रसन्नासि तर्हि रत्नवती मां यथा वृणुयात्तथा कुरुष्व / एतदर्थमेव समाराधितासि / देव्युवाच-अस्तु सापि तुभ्यं दत्तात्र संशयं माकार्षीः / इत्युदीर्य देव्यदृश्याऽभूत् पुण्यसारोऽपि दृष्टः स्वकार्यमध्ययनादिकं सयत्नतया कत्तुं लग्नः / अथ पुण्यसारस्य केनचिद् द्यूतकारिणा सह सङ्गतिर्जाता तत:प्रभृति स द्यूतासक्तोऽभवत् / अथैकदा राज्ञा लक्षमूल्यकमाभरणं पुरन्दराय रक्षितुं दत्तं कथितश्च कार्यकाले त्वयैतदातव्यं गृहे स्थाप्यतामिदानीमिति / सोऽपि तदाभरणं पृथगेव सुरक्षितप्रदेशे स्थापितवान् / 3-SCC / मां यथा वृणुयानी जगाद-वत्स ! तबाराध धपदीपनैवेद्यादिभिः प्रजगोत्रदेव्या दत्तो // 99 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy