SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ SARREARREACTICORNERLEC पादाहतं यदुत्थाय, मूर्धानमधिरोहति / स्वस्थादेवाऽपमानेऽपि, देहिनस्तदरं रजः // 10 // इति परमेपा तत्कृता प्रतिज्ञा तामपरिणीय कदापि न गन्तुमर्हति पुनस्तदुद्वाहस्तु दैवायत्त इति हेतोस्तस्य पुण्यसारस्याधिक वैलक्ष्यमभूत् / अत्रावसरे तत्पिता पुरन्दरो गृहमाययो / भोजनसमये समाकारितोऽपि पुण्यसारः कुत्रापि केनाऽपि न लक्षितस्तदा स्वयमेव श्रेष्ठीतस्ततः शोधयन्नेकान्ते त्रुटिते मञ्चके विलक्षवदनं सुप्तं तमपश्यत् / तदा पित्रोक्तम्-वत्स ! उत्तिष्ठ, भोजनं कुरु, अद्य किं जातं, येनात्र म्लानमुखः सुप्तोऽसि ? तेनोक्तं-हे पितः! त्वं याहि, भुङ्ख्वाहमिदानीं न भोक्ष्ये / पिताऽवक्-कथम् ? पुत्रोऽगदत्-हे पितः ! मयाद्य प्रतिज्ञातम्-यावद्रत्नवी न परिणेष्यामि तावदनोदके न ग्रहीष्यामीति / यावदियं प्रतिज्ञा मे न पूर्येत तावत्कथं भुञ्जीय ? अत एनामपूरयित्वा प्राणात्ययेऽपि भोजनं नैव कुर्यामिति तथ्यं विद्धि / तच्छ्रुत्वा पित्रोक्तम्- हे वत्स ! इदानीमध्ययनसमयो वर्ततेऽतो यत्नेन विद्याभ्यासः क्रियताम्, परिणयनकाले प्राप्ते त्वदनुकूलया तयाज्यया वा सह ते लग्नं कारयिष्यामि / इदानीमुत्तिष्ठ भुज्यतां पुत्रोऽवदत्-पितः ! तामुद्वाद्यैवाशिष्यामि / श्रेष्ठी जगौ-वत्स ! एतदाग्रहं त्यज किं त्वत्कथनेन त्वां परिणाययिष्यामि ? मम तु स्वत एव महतीच्छा वर्तते तव लग्नार्थम् / पुण्यसार आख्यत्-पुत्रपरिणयेच्छा पितुर्भवत्येव / मया त्वेषा प्रतिज्ञा कृतास्ति यद्रत्नवत्याः पाणिग्रहणं कृत्वैवाशिष्यामीति / प्रान्ते पित्रोक्तम्-हे वत्स ! उत्तिष्ठ, भोजनं कुरु / तस्याः पितुः | पार्श्वङ्गत्वा त्वदुक्तं साधयिष्यामि / तदनु पित्रा सह गत्वा पुण्यसारो बुभुजे / अथ पुण्यसारः पितरमवादीत-हे पितः! त्वमिदानी तत्र गच्छ, कार्य साधय / तदा पुरन्दरश्रेष्ठी बहुयोग्यपरिवारयुतो रत्नसारगृहमाययो / तमायान्तं विदित्वा रत्नसारस्तदभिमुखमा
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy