________________ सूक्तमुक्तावली- // 98 // SOCIRBSEKXCL5RY कोऽपि महान पुण्यात्मा जीवोऽवतीर्णोऽस्ति तेन सा हृष्टाऽभूत् / तृतीये मासे श्रेष्ठी स्वामिवात्सल्यं, सङ्घपजनं, जिनेन्द्राराधनं च महामहेन चक्रे / तथा सप्तक्षेत्र्यां यथाशक्ति धनान्यदात् पुण्यश्रियाच गर्भप्रभावत उत्तमा दोहदा अभवन् सर्वे च ते दा श्रेष्ठिना पूरिताः / तदनु दशमे मासि शुभमुहुर्ने स्वोच्चस्थानैकसद्ग्रहे सा पुण्यश्रीः पुत्रमजनिष्ट श्रेष्ठी महोत्सवं कृतवान् / ततस्तस्य पुण्यसार इत्यभिधानमकरोत् पश्चमान्दात्परं तं लेखकशाला प्रावेशयत् / स चाऽचिरेण कालेन पुंसो द्विसप्ततिकलाकुशलोऽभवत् / तत्रैव नगरे रत्नसारनामा श्रेष्ठी वर्तते तत्पुत्री रत्नवत्यपि तस्यामेव शालायामागत्य पठति स्म / अथैकदा तया सहकेन हेतुना पुण्यसारस्य कलहो जातो द्वयोः हुङ्कारतुकारादिकमभवत् / छात्रैर्वारिते तयोः कलहो यदा न न्यवर्तत, तदा शिक्षकाः समेत्य तौ वारयामासुः / तदा पुण्यसारस्तामुवाच-हे रत्नवति ! त्वं गर्व मा कुरु, नूनमहं त्वां परिणीय दासी करिष्यामि, एषा मे प्रतिज्ञाऽभूत् / एतत्सत्यं कृत्वैव स्वस्थीभविष्यामि तयोक्तं-कदाप्यहं त्वादृशं रक्षं गुणहीनं न वृणुयाम् / त्वादृशास्तु मम गृहाणि मार्जयन्ति जलाहारका भृत्याश्च विद्यन्ते स्वप्नेऽप्येष ते मनोरथो न सेत्स्यति / तदा पुण्यसारोऽवदत-नूनमहमेव त्वां परिणेष्यामि, अत्र मनागपि सन्देहं मागाः / ततःप्रभृति तावेकत्र पठन्तावपि मिथो भाषणादि नाऽकुरुताम् / अथ पुण्यसारः स्वमन्दिरमागत्य विच्छायवदनः कुत्राप्येकान्तप्रदेशे तस्थौ। मात्रादिपरिवारैः सह नवदति स्मन च भुक्ते। केवलं तामहं कथं परिणीय कृतां प्रतिज्ञा पूरयिष्यामीति विचारसागरे निमग्नस्तथा रत्नवत्यास्तादृग्वाग्बाणैरङ्गष्ठतः शिखापर्यन्तं | विद्धः किङ्कर्त्तव्यविमूढ इवाऽदृश्यत यदाह-' उन्नतो न सहते तिरस्क्रियाम् / / अन्यच्च -