________________ अवेदयः२ मुक्तावली॥९६॥ इह सहज सनेहे जे लहे मित्रताई, रवि परि न चले ते कंज ज्यु बन्धुताई। हरि हलधर मैत्री कृष्णने जे छ मासे, हलधर निज खंधे ले फिरयो जीव आसे // 21 // सूर्यकमलयोमित्रतेव यस्य स्वभावो निश्चलो जायते तेन सह कृता मित्रता यावज्जीव न विमुश्चति / यथा कृष्णबलभद्रयोरभूद् यो हि बलभद्रः कृष्णशवं षण्मासपर्यन्तं मोहवशान्निजस्कन्धे स्थापितवान् / तथैवान्येऽपि सज्जनैः सह मैत्री कुयुः // 21 // अथ मित्रतोपरि कृष्णबलभद्रयोः ८-कथानकम्यथा पुरा-द्वारिकापुरे दग्धे कृष्णबलभद्रौ ततो निर्गत्य काश्चिदेकामटवीमीयतुः / तत्र श्रीकृष्णस्य तृषा लग्ना, तेन बलभद्रो जलं याचितः / तत्राऽवसरे श्रीकृष्णस्तरोरधस्तादुपाविशत् बलभद्रश्च जलं लातुं गतवान् / मार्गे केनचिद्वैरिणा सह युध्यमानस्य बलस्य विलम्बे जाते तृषातुरः श्रीकृष्णचन्द्रः पादोपरि पदं निधाय तत्रैव सुष्पाप, परं तदीयचरणे यत्पद्यलक्ष्माऽऽसीत्तद्दूरत एव रोचिष्णु विलोकमानस्तद्वन्धुर्मत्तः कृष्णस्य विनाशो माभूदिति धिया पूर्वत एव वने वसन् जराकुमारो मृगभ्रमावाणं मुमोच, तेन च तच्चरणं विद्धमभूत् / तदाऽतिव्यथितः कृष्णोऽपि अरे किञ्जातमित्युच्चैरजल्पत्तदा लक्ष्ये संलग्नं वाणं लातुं तत्राऽऽगतो जराकुमारः स्वबाणेन विद्धं यदुपतेश्वरणं वीक्ष्य पश्चात्तापं कुर्वन तदीयचरणयोः पतन भृशं शुशोच अवदच्च-हे बन्धो ! मया मृगभ्रान्त्या शरो मुक्तस्तदागः क्षम्यताम् / तदा कृष्णेन भणित:-हे कुमार! त्वमितः सत्वरमपसर, नो चेबलभद्रः समागतस्त्वामपि हनिष्यति / अथ निर्गते जराकुमारे कृष्णस्तद्वाणमुद्दधे, तदा तस्य महती वेदनाऽभूत् तेन तस्य जराकुमारोपरि विद्वेषो जातः / तत आयुषः