________________ नास्ति तदैतन्मात्रमेव श्रुत्वा सहस्रमल्लो जगाद-भगवन् ! भवदुपासको भवदग्रेऽहमेव शूरस्तिष्ठामि / योऽहं नृपादेशात्परैरग्राह्यं सुदुष्ट l कालसन्दीपनमेकाक्येव बच्चा नृपान्तिकमनयम् / इत्थं मयि शूरे विद्यमाने नास्ति कोऽपि शूर इति किं ब्रूषे 1 तत्रावसरे गुरुणोक्तम् अप्पा चेव दमेअव्वो, अप्पा हु खलु दुद्दमो। अप्पा दंतो सुही होइ, अस्सि लोए परत्य य // 9 // . अयमोऽस्या गाथायाः-भो! आत्मा एव दमितव्यो वशीकर्तव्यः, हु इति निश्चयेन खलु यस्मात्कारणादात्मा दुर्दमो दुर्जेयो वर्तते आत्मानं दमन जीवोऽस्मिन लोके परत्र-परभवे च सुखीभवति / यतः परेषां दमनेन शौर्य न जायते यो हि निजेन्टियः सह निजात्मानं जयति, स एव शूरो निगद्यते। इति गुरूक्तं श्रुत्वा सञ्जातविषयवैमुख्यः सहस्रमल्लस्तदैव तस्यैव गुरोः पार्थे चारित्रं ललौ। पुनर्विहरन स्वपरात्मानं पुनानः कालसन्दीपननगरमागत्य कायोत्सर्गध्यानमाश्रित्याग इव निश्चलस्तस्थौ। / ___अथ रथवाटीतः परावर्तमानः कालसन्दीपनस्तत्र तथावस्थं तमालोक्य सम्यगुपलक्ष्य च मनसि व्यचिन्ततू-अरे ! स एवाध्यमत्राऽऽगतो दृश्यते धर्मधूर्तः, यः पुरावाऽऽगत्य मां बध्वा नृपान्तिकमनयदेष एव मे वैरी। न जाने पुनरपि किमपि विधातुमेतद्वेषेण समागतो भवेदतो वध्य एवेति ध्यात्वा सेवकानादिशद्-भो ! एनं घातयत / ततस्ते लोकास्तत्कालमेव शस्त्रैरखोष्ठे ण्डैश्च ताडितुं लनाः। परमेवं महोपसर्गेऽपि सहस्रमल्लो मुनिस्तेभ्यः किञ्चिदपि न चुकोप न वा मनसि खेदं चकार, किन्तु सर्व ली सममावेन सेहे। ततः क्रमशः क्षपकश्रेणीमारूढोऽतकृत्केवलीभूय मोक्षमियाय / ईदृशा साधूनां सदैव षटकायजीवैः सह मैत्री तिष्ठति अत ईशसाधुमिरेव मैत्री कार्या / किन---- HCHAKRA छक्कर-88