________________ सक अर्थवर्ग:२ कावली 15 साधजनमैत्री जातेऽप्यपराधे न हीयते, लेशतोऽपि द्वेष नोत्पादयति, प्रत्युत संयमगुणा एधन्ते / किञ्च-साधवोऽपकर्तरपि गुणानेव ख्यापयन्ति परीषहसहने तस्कृतसाहाय्यं मन्यते / अपि च पूर्णचन्द्रोदयात्सागरो यथा वर्धते तथा जलयोगाश्चन्द्रकला'' नितरां शोभते / इत्थं चन्द्रसागरयोः स्नेह इस साधुजनमैत्री प्रतिदिवसमेघते इति तात्पर्यार्थः // 20 // साधुजनमित्रतोपरि सहस्रमल्लसाधोः ७-प्रवन्धःयथा-पुराऽवन्तीनगरे जितशत्रुनृपस्य पार्श्वे वीरसेननामा कश्चन क्षत्री जीविकायै समायातस्तस्य तत्र सेवायां महान कालो यातः। अत्रान्तरे राज्ञः कालसन्दीपननामा रिपुरासीत् स निर्बुद्धिः परमाभिमानी राज्ञः प्रणाम तदादेशश्च न चिकीर्षति / अत एकदा राजा सदसि सर्वसभ्यानवोचत-भो भो ! वीरा ! यो हि कालसन्दीपनं गृहीत्वावाऽऽनेष्यति तस्मै सत्पारितोषिक दास्यामि परं कोऽपि तनांग्यकरोत् / तदैव वैदेशिको वीरसेनो नृपं जगाद-अहमेकाक्येव तमत्र समानेतुं शक्नोमि। राजाऽवक्तहि गच्छ सत्वरमत्राऽऽनय ततो नृपादेशात्स तत्र गत्वा छलप्रपञ्चादिना तं नृपान्तिकं निनाय / तेन च तुष्टो राजा तस्मै देशमेकं दत्त्वा राजानमकरोत् तदिनात्तस्य सहस्रमल्ल इति नाम पप्रथे, स राज्ञः प्रेमपात्रमभूत् / कालसन्दीपनश्च गर्वमुक्त व्यधात् तदनु नृपादेशमशेषमङ्गीचक्रे, नृपाऽऽज्ञया च स्वनगरमाययौ। सहस्रमल्लनपो राजस्नेहितयाऽन्यान् सर्वान् तृणाय मन्यमानः सर्वत्राकृतोभयः केसरीव बभ्राम / अथैकदा तत्र चतुर्बानी श्रुतसारसरिराययो, तद्वन्दनार्थ नृपादयः सर्वे लोका आययुः। सहस्रमल्लोऽपि निजपरिवारयुतस्तत्राऽऽगात् / वन्दित्वा यथास्थानमुपविष्टे नृपादिके लोके स सूरिविकजनमुद्दिश्य देशनां प्रारभत तथा हि-भो भो ! लोकाः सावधानतया शृणुत-यदिह संसारे कोऽपि शूरो, दाता, विद्वांश्च नास्ति / वा कस्यापि वाक्पटुता XECTEL // 95 //