________________ मुक्तावली- / 93 // SUBSCRBELIEBERRIBE यावत्सा प्रसन्ना न भविष्यति तावन्मे मनोऽपि स्वस्थ नैव स्यात् / मम तु तत्प्रसादकृते कृता यत्नाः सर्वे वैफल्यमीयुः त्वं मे स्निग्धः अर्थवर्ग:२ सरवाऽसि, अतस्त्वदुपायेन सा प्रसन्ना भविष्यति / अतस्त्वं भ्रातृजायां प्रसादय, येनाऽहमपि सुखी स्याम् / तदुक्तमाकलय्य कपिनाऽचिन्ति-सज्जना हि सर्वस्यापि पलहादिक्लेश मोचयन्त्येव, मम त्वसौ परमस्नेही सखा वर्तते / एतदीयदुःखन्तु मोचितव्यमेवेति विमृश्य तमवक्-सखे ! चिन्तां मा कुरु, त्वरितमहमवश्यमेव केनचिदुपायेन तां प्रसादयिष्यामि। परं सा जले तिष्ठति, मित्र ! तत्र में गमनं कथं भविष्यति ? तच्छ्रुत्वा मकरोऽवक्-तत्राऽहं त्वां सुखेन नेष्यामि, त्वं मम पृष्ठे समारोह, तत्राऽहं त्वामक्लेशेन शीघ्र नयामि / ततः कपिस्तत्पृष्ठोपर्युपाविशदथो मकरस्तं नीत्वा हृदि मुदमावहन स्वस्थानं प्रत्यचलत्कियदरं गत्वोवाच-हे सखे ! मम मकरी तव हृदयं बुभुक्षति / सा सगर्भा वर्तते, तस्या ईगेव दोहदः समुत्पन्नोऽस्ति / तच्छ्रत्वा कपिर्दध्यौ अहो! मया त्वस्यातिमिष्टानि फलानि मोजितानि / तत्प्रतिफले त्वेष खलतामेव प्रकटयन मामेव जिघांसति, अतोऽसौ स्वबुद्ध्या वश्चनीयस्तदैव जीविष्यामीति विचार्य प्रत्युत्पअधुद्धिा कपिविहस्याऽवोचत् / मम भ्रातृजाया मद्धृदयं बुभुक्षति चेत्का हानिः 1 सहर्षमहं दास्यामि / परमेतचया तत्रैव कथं नोक्तम् ? यतोऽहं हृदयं वृक्षोपर्येव स्थापितवानस्मि, ततस्तत्र गत्वापि तस्यै कि दास्यामि ? अतो मां पचासीरं नय / तत्र गत्वा हृदयं लात्वा सत्वरमागमिष्यामि, ततस्ते परन्यै दत्त्वा प्रसादयिष्यामि / निर्बुद्धिमकरस्तदैव तटमाययौ, कपिस्तूत्प्लुत्य वृक्षमारुरोह / किश्चिद्विरम्य मकरेण समाहूतः कपिरवादीत-रे विश्वासघातक खल! त्वं जलचरोऽहं च भूचर इति त्वया सह मम का मैत्री ? मया ते यन्मधुरै फलमेतावद्भोजितं तत्फलमेदर्शि / त्वन्तु मामेव जिघांससि, याहि याहि / Bream