________________ BC / अथ सरलकपटिमित्रोपरि-कपिमकरयोः ५-कथासमुद्रे कश्चिन्मकरः प्रतिवसति, तमेकदा तीरागतं मर्कटोऽपश्यत् / सरलस्वभावः कपिस्तस्मै मिष्ट फलं प्रदाय तेन सह मैत्रीश्वकार / मकरोऽपि तद्भक्षित्वा तदपूर्वरसलोभेन प्रत्यहमुपतीरमागत्य तस्थौ / कपिरपि प्रतिदिनमनेकविधममृतोपमं परिपक्कं फलमानीय तस्मै स्नेहवशाददात् / अथैकदा स मकरस्तत्फलानि स्वमकरी भोजितवान् / साप्यतिमिष्टदिव्यफलाऽशनप्रमुदिता स्वपतिमपृच्छत्-हे नाथ ! त्वमेतत्फलममृतस्वादु कुत्र कथं लेमिषे ? तेनोक्त-प्रिये ! ममैक: कपिः सखा वर्तते तेनाऽर्पितम् / तत्रावसरे साऽवक-स्वामिन् ! यः प्राणी सदैवेदृशान्यमृतोपमानि फलान्यनाति, तस्य शरीरस्थ माधुर्यमनुपममेव स्यात् / ततो मे तस्य हृदयमशितुं वाञ्छास्ति साम्प्रतमन्तर्वत्नीत्वादयमेवदोहदो ममोपन्नोऽस्ति / एष के नाप्युपायेन काटादिनापि त्वयाऽशु पूर्यताम्, नो चेद् गर्ने विकृतिमुपैष्यति / इति मकरीवचः समाकर्ण्य मीनोऽचिन्तत् / एषाऽतिदुष्करकार्यमादिशति, यदि न पूरयिष्यामि तदाऽनिष्टमपि स्यादिति विमृश्य तेनोक्तं-प्रिये ! दुष्करस्ते दोहदस्त तस्तयोक्तं नाथ ! छलप्रपश्चादिना स्वमित्रं तमत्र समानय / पश्चादहं चातुर्येण तदीयहृदयमांसमशित्वा पूर्णदोहदा भविष्यामि / अथ तदिने स मकरश्चिन्तित इझ तत्रागत्य तस्थौ कपिनाऽर्पितफलमपि भक्षितु नैच्छत् / तदा प्रेमपात्रेण कपिना भणितो मित्र ! किपट जातम् ? येनौदास्यं भजसे, सस्नेहेन न भाषसे न किमप्यसि ? तदा दीर्घ निःश्वस्य कपटेन मकरोजक्-मित्र ! कि बच्चि? अब मे प्रिंयकरी मकरी केनचिद्वेतुना कुपिता जाता / अतो न खादति, न पिबति, मय्यालपति न मया सह प्रेम्णा वक्ति / शतशः प्रार्थिवापि न प्रसीदतीति दुःखातुराय मेऽशनलपनादि किमपिन रोचते, अतोनाऽऽगन्तुमपीच्छा नासीत्। तथापि तवाऽतिस्नेहेन कथमप्याऽऽगतोऽसिस *HARI ES