________________ 16 अयचमः सूक्तमुक्तावली॥९ // - ERSECRUREDEOXXX __ अथ ३-कृपणता-विषयेकण कण जिम संचे कीटिका धान्यकेरो, मधुकर मधु संचे भोगवे को अनेरो। तिम धन कृपिकेरो नोपकारे दिवाये, इम हि विलय जाए अन्यथा अन्य खाए // 7 // यथा-कीटिकागणः कणशोधनानि सश्चित्य न स्वयं भुङ्क्ते, न परान भोजयति, न वा धर्मार्थ व्येति, किन्त्वन्य एव तदीयसंचितं धनं भुक्ते / पुनर्यथा क्षुद्राभिः सञ्चयकृतं मधु परो भुङ्क्ते, तथैव कृपणो धनसञ्चयमेव करोति / तत्स्वयं धर्मादौ नैव व्येति, किन्तु राजा यक्षादिश्चौरादिको वा तद्धनं हठादपि गृह्णाति // 7 // कार्पण्ये मधुमक्षिकायाः ५-दृष्टान्त:यथा-कोऽप्येको दाता ज्ञानिनमनाक्षीत-हे दयानाथ ! कृपणस्य मधुमक्षिकासाम्यं कथं दीयते ? ज्ञानी जजल्प-हे दातः! श्रूयताम-मधुमक्षिका हि महता परिश्रमेण नानादेशतो रससञ्चयमेकत्र कुर्वते इयन्तं परिश्रमं कृत्वाऽपि रसेषु माधुर्यरूपां लक्ष्मी स्वयं मनागपि न भुञ्जते, नैव कस्मैचिदपि सुपात्राय दानबुद्धथा ददते / तथैव ये कृपणा जायन्ते तेऽपि समर्जितं निज द्रव्यं भूमावेव निदधते / स्वयं किञ्चिदपि नोपभुञ्जते / नैव कुत्रापि धर्मार्थ विनियुञ्जते / अतः लोके कृपणा मधुमक्षिकासमा गीयन्ते / कृपणपणु धरता जे नवे नंदराया, कनकगिरि कराया ते तिहां अर्थ नाया। इम ममत करंतां दुःख-वासे वसीजे, कृपणपणु तजीने मेघ ज्यूं दान दीजे // 8 // SANA