SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ धन विन कयवन्नो जेह वेश्याइ नाख्यो, धन ज विन वशिष्ठे राम जातो न भाख्यो। सुकृत सुजसकारी अर्थ ते ए उपार्जा, कुवणिज उपजन्तो अर्थ ते दूर वाजों॥४॥ भो भो लोका! इह संसारेऽर्थसञ्चयोऽपि कर्तव्य एवास्ति / यतस्तद्विना महतामपि दुःखमेव जायते यथा-कयवनानामा श्रेष्ठी यदा द्रव्यहीनोऽभूत्तदा भुक्तभोगया गणिकया हठानिजालयाभिष्काशितः / रामचन्द्रमपि वनवासगमनसमये कुलगुरूरपि वशिष्ठो निर्धनत्वान्नाऽऽद्रियत / अर्थे सति सुकृतशतमपि कर्तुं शक्नोति / अर्थतः सर्वाण्यपि महान्ति कार्याणि सिध्यन्ति / अतः सर्वैर्धनसङ्ग्रहः कर्त्तव्य एव // 4 // द्रव्यहीनतया वेश्यानिष्कासितस्य कथवन्नाश्रीष्ठिन: ३-कथाकश्चित्कृतपुण्यनामा श्रेष्ठी द्वादशवर्षाणि यावद्वेश्यालये स्थित्वा तस्यै षोडशकोटिद्रव्यमदात् / मृते च पितरि निर्धनतामापन कयवन्नाश्रेष्ठिनं ज्ञात्वा साऽक्का गणिकामुवाच-पुत्रि ! निर्धनमेनं मुश्च / पुत्री वदति हे मातः ! एतस्य षोडशकोटिधनानि स्वया मया च गृहीतानि। तेनैतदन्यस्य कस्यापि सङ्गो न कृतः सम्प्रति निर्धनत्वेऽपि पुरा दत्ताऽमितद्रविण भुञ्जानाऽहमेनं कथं त्यजानि ? तत्राऽवसरे साऽक्का प्रकुपिता कयवनाश्रेष्ठिन निर्भय निष्काशितवती / अहो! कीदृशः स्वार्थसाधनतत्परो जनस्वभावो यतो यावत्तस्य धनान्यासन तावत्तं भृशमादृतवती / रिक्त चार्थे तमेव निर्भर्त्य निरकाशयत्स्वगेहादिति हेतोरर्थ एव जगति सर्वतः श्रेयानस्ति / अथैश्च दुष्करमपि सुकरायते धनिनं सर्वो लोक आद्रियते किञ्च द्रव्यहीनं रामचन्द्रमवेक्ष्य गुरुणापि सोनारतः / यथा TERRORIEOBER
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy