SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ BCCIRCHIKARAN आगमिष्यति, तस्मै राज्यमिदं दत्त्वाऽऽत्महितं साधनीयम् / ततः प्रभाते तमागतमालोक्य सादरं तस्मै स्वराज्यं दत्त्वा महासेनो राजा श्रीचन्द्रशेखरसरिनिकटे दीक्षितो भूत्वा सुनियमेन संयम परिपाल्य सुदुस्तरमपि भवाब्धि त्वरितमेव ततार / इत उत्तमः क्षितीशस्तन कियत्कालं स्थित्वा निजपुण्यप्रतापं सर्वत्र प्रसार्य बहून्देशान जिगाय / अथैकदा सिन्धुसौवीरनगराधीश निजाज्ञामुरी|कर्त दतमखेनोत्तमः क्षितिप इदं न्यगादयत् यथा-यदि मदादेशमुरीकरोषि तर्हि करं देहि नो चेत्समराय समुद्यतो भवेति / यदा तदाज्ञां स नोररीकृतवान् तदा मन्त्रिण राज्यकार्ये नियुज्य चतुरक्षौहिणी सेनामादायोत्तमनरेशः सिन्धुसौवीरपुरीपरिसरमागत्य | तस्थौ / तत्र द्वयोस्तुमुले संगरे प्रवृत्ते निर्जितो वीरसेनो नृप उत्तमकुमाराय राज्यं दत्त्वा सहस्रपुरुषैः सह चारित्रं ललौ। तदनु HT क्रमशः स उत्तमभूपालो वाराणसीमागात पिता च तदभिमुखमेत्य महता महेन पुरीं प्रावेशयत् / तस्मिन्नेव दिने पुत्र राज्येऽमि पिच्य मकरध्वजो नृयो दीक्षा ललौ / इत्थमुत्तमनृपस्य चत्वारिंशलक्षकोटियामा बभूवुः / चत्वारिंशल्लक्षमिता गजाऽश्वाश्चाऽऽसन् | तावन्तो रथाः पदातयश्च / इत्थं चतुरङ्गबलयुतो प्राज्यं राज्यं न्यायतः परिपालयन सर्वत्र राज्ये वीतरागस्य दिव्यानि पनि | चैत्यानि, प्रतिवर्ष रथयात्रामहोत्सवमकरोत् / प्रतिग्राम दानशालाज्ञानशालादिकं कारयन् शाश्वतमहिंसामयं धर्म पालयन प्रादीनानुद्धरन सदैव धर्मकार्ये तत्परोऽवर्तत। - 81 तत्राज्यदोधाने कश्चित्केवली समायातो वनपालेन तदागमे निवेदिते तस्मै तुष्टिदानमदादुत्तमनरेशः / तदनु नृपादयः सर्वे पौरास्तं वन्दितु तत्राऊजग्मुः / देशनान्ते राज्ञा पृष्टम्-भगवन् ! भवान्तरे मया किमकारी येनात्र भवे चैतावती समृद्धिराप्ता ? त केन कीरस्वामितः 1 केन कर्मणाब्धौ पतितः ? केन चाऽनंगसेनागणिकायाः वशंवदोऽभूवं तत्प्रकाशं कृपया कथय / केवली वदति
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy