________________ मन्बभूवम् / को जानाति पुनर्भवान्तरे कां गतिमेष्यामीति विमृशन्मासमेकमनङ्गसेनावेश्यालये तिष्ठनद्य पिञ्जरादहिर्मुक्त्वा कुत्राप्यन्यत्र गतां तां दृष्ट्वा पटहनादमाकलय्प तत उड्डीय पटहमहं स्पृष्टवानस्मि / तच्छृत्वा राज्ञा तत्पदः सूत्रे मोचिते स्वरूपं प्रपन्न: कुमारःप्रादुरासीत नृपाद्याः सर्वे लोकाः प्रमोदमापुः / तस्मिन्नवसरे महेश्वरदत्तः श्रेष्ठी नैमित्तिकमोक्तदिने मिलिते निजपतिज्ञाप्रतिपालनाय कुमारेण सह सहस्रकलां पुत्रीं महता महेन विवाहितवान् / करमोचनसमये प्रचुर धनादिक प्रादात, तदनु महालसात्रिलोचनासहस्रकलाभिस्तिसृभिः पत्नीभिभोंग भुञ्जानः कुमारः सुखेन कालं गमयति स्म / / ततो राजा तामनङ्गसेनां वेश्यामाकार्य तत्सर्वमपृच्छत् / तयोक्तम्-राजन् ! समुद्रदत्तः श्रेष्ठी कुमारमारणाय पञ्चशतदीनारदानलोभ प्रदर्य मया तत्र पुष्पकदम्बके सर्प स्थापितवान लोभान्धीभूतया मयैतन्महापापं कृतं तनिशम्य राजाऽधिकं चुकोप / तयोईयोश्च शूलिकारोपणमादिशत्परं दयालुरुत्तमकुमारो राजानं भृशमनुनीय तौ तस्मादमोचयत् / पश्चाद्राजा तयोः सर्वस्वं गृहीत्वा देशानिष्काशितवान्। तदनु जामाने राज्य दचा संसारादुद्विग्नचेता राजा चारित्रमग्रहीत, तेन सह कियन्तो व्यवहारिणोऽपि दीक्षा ललुः। उत्तमराजश्व न्यायतोराज्यं कुर्वन् प्रेयसीत्रितयेन सह विषयसुखमनुभवति स्म तत्र नगरे। अथैकदा भ्रमरकेतुर्निमित्तविज्ञमाहूय पप्रच्छ-भो! मम शत्रुरुत्तमकुमारः सम्प्रति कुत्राऽऽस्ते ? तेनोक्तं त्वत्पुत्रीसहितः स इदानीं पल्लीवेलाकूले राज्यं करोति / तदाकर्थ क्रोधारुणाक्षो भ्रमरकेतुरष्टादशसहस्रसैन्यानि तेन सह योद्धमेकत्रीचके, परं प्रमाणसमये स दध्यौ-अहो ! कीदृशं निमित्तशास्त्रं ? यत्पुरोदितं नैमित्तिकवचनं सत्यमेवाऽभूत कुमारसाहसमपि श्लाध्यं यदेकाकिनैव कमान्तर्गत्वा मत्पुत्री परिणीता। चामूल्यानि पञ्च रत्नानि जगृहिरे स चेदानी प्रशस्यो जामाताऽभूत, भवितव्यं केन वार्यते ? यदाह KHARKIRROREA