________________ अर्थवर्ग:२ मुक्तावली सम्यक पाठिता चतुष्पष्टिकलाकुशला शैशवात्परं वयः अपमास्ति, कस्मैचिद्योग्यवराय तां दया संसारविमुखः श्रेष्ठी चारित्रं जिघृक्षति स चैकदा नैमित्तिकमाहूयाऽपृच्छत् / / भो निमित्तज्ञ ! मम पुत्र्याः को भर्ता भविष्यतीति ? तेनोक्तमद्यतनदिनात त्रिंशत्तमे दिवसे तव पुत्र्या वरो मिलिष्यति स सार्वभौमो भविष्यति / तदुक्तदिनावधारणं सत्यं मन्यमानः स पुत्र्या लनसामग्री सकलां सज्जीकृत्य महामहं वितनुते / विस्तृते सुरचिते मण्डपे मङ्गलगीतं प्रावर्तत तथा करमोचन कालिकजामातृप्रदानार्थ गजतुरगरथसुखपालवसनाभरणादिसर्वमपि सज्जीचक्रे / एतत्सकले पुरे प्रख्यातमस्ति तेन सर्वेषामाश्चर्य लगति यद्वरं विना विवाहसामग्रीमखिलामसौ श्रेष्ठी सज्जयामास / इतोऽन्यदाश्चर्य किं स्यात् ? राजाप्येतत्स्वरूपं ज्ञात्वा चकितोऽस्ति / स्वयं महेश्वरदत्तः श्रेष्ठी कन्या विवाह्य दीक्षाजिघृक्षां धत्ते / तेन तस्मै धन्यवादमपि नृपो ददानो विचारयति संसारविमुखीभूत अहो ! यदा जामाता मे मिलिष्यति तदैव तस्मै राज्यं समर्प्य प्रव्रजिष्यामि। ततो नृपो महेश्वरदत्तश्रेष्ठिनं समाहूय तेन सह सर्व विमृश्य नगरे पटहमवीवदत् यथा-" यो हि त्रिलोचनाभर्तुः शुद्धिं महालसाया मूलतत्त्वं निगदिष्यति तस्मै राज्यं श्रष्ठिनः पुत्री सहस्रकलाश्च दास्यामीति।" अथ दैवज्ञकथितविवाहदिवसे चैका कीरः पटहं स्पृशन नृमाझ्या राजपुरुषमवादीत-मो! अहं नृपं सर्व कथयिष्यामि कथिते च तयोलाभो मे स्यात, अहो! ममापि भाग्यमुद्वमूव / कीरखाचमीडशीमावर्यजननीमाकर्ण्य ते तं नृपान्तिकं निन्युः / तदा कीरो राजानमवक्-राजन् ! अहं त्रैकालिकज्ञानवानस्मि / अत्र सदसि त्रिलोचनां महालसाश्चाऽऽनीय वसनादिना व्यवहितां स्थापय तदा सर्वमामूलं गदिष्यामि रामपि तथैवाऽकरोत् / कीरो विचारयतिराज्येन मे प्रयोजनं नास्ति परं महालसायास्तचं कथनीयमस्ति / इति ध्यात्वा कीरो वदति-राजन् ! निशम्यतां यथा--