________________ न्तिकमागत्य, तया सहाऽऽलप्य कुमारं किश्चिदभिलक्ष्य च समागता तस्यै कथयति-हे स्वामिनि ! सोऽपि त्वत्प्राणेश्वरसदृश BI एव लक्ष्यते, परंतु स एवेति मया निश्चेतुं न शक्यते / तदाकर्ण्य महालसावक-धिग्मां यत्परपुरुषरागोऽभूत् / अतोऽहं पापिनी जाता, ततः पुनर्वैराग्यमापन्ना धर्मकृत्ये प्रयताभूत् / इतो दासीगमनानन्तरं कुमारस्त्रिलोचनामपृच्छत्-अयि प्रेयसि ! सा वृद्धा का ? या वयाऽऽलापिता / तयोक्तं हे नाथ ! | शृणु-काचिन्महालसानाम्नी वैदेशिकी युवती गुणवती महारूपवत्यपि निरन्तरं धर्मतत्परा मद्गृहे तिष्ठति, सा भगिनीत्युच्यते मया, तस्या विचक्षणा दासी साऽऽसीत् / इत्याकर्ण्य कुमारः स्वमनसि शशके सा कि मम दयिता तु नास्ति ? अहो ! कोऽयं मे व्यामोहा ? तस्या अत्र कः संभवः ? इत्यालोच्य मनसि खेदमावहन स्वात्मानं निनिन्द। अथान्यदा स समीपवर्तिनि चैत्ये भगवन्तं पूजितुं गतः। कियत्कालानन्तरमनागतं तं वीक्ष्य तस्य शोधनार्थ दासीमप्रेषीत्रिलोचना। दासी समागत्य तत्र सर्वत्र तच्छुद्धिमकरोत, परं कुत्रापि स नैव दृष्टः। पश्चादागत्य त्रिलोचनां तदकथयत् तदनु पतिमलभमाना सा भृशं शोकमकरोत् / तदानीं तत्र नगरे महेश्वरदत्तनामा व्यवहारी षट्पञ्चाशत्कोटिद्रव्यनायकोऽस्ति / तस्य द्वीपान्तरं गत्वा क्रयविक्रयार्थ पञ्चशतप्रवहणानि सन्ति, पञ्चशतानि शकटानि वर्तन्ते, गृहागां पञ्चती, तावन्ति हट्टानि विद्यन्ते, तथा धान्यानां सदनानि पञ्चशतानि, गोकुलानि पञ्चशतानि, पञ्चशतगजास्तावन्तस्तुरगा, पञ्चलक्षसेवकाः, परमेतावत्सम्पत्तिमतोऽप्यस्य पुत्रो नाऽऽसीत् / बहुधा यतमानस्य तस्यैका पुत्री जाता। सा शशिकलेव सकलजननयनयोरानन्ददात्री सहस्रकलानाम्नी सध्यापकेन * * *