________________ ( एक अर्थवा मुक्तावली1८३11 हे कान्त ! ममैतत्करण्डके पितृप्रदत्तानि दिव्यानि पञ्च रत्नानि सन्ति / तेष्वेकं पृथिवीरत्नं पूजितं नानाविधमन मणिकनकरत्नमयभाजनं. प्रयच्छति / द्वितीयं जलरत्नं पूजितं सद्वाञ्छितमतिमिष्टं वारि वर्षति / तृतीयं वह्विरत्नमस्ति तत्प्रभावात् सूर्यपाक रसवद्यथेष्टं भोज्यं लभ्यते / चतुर्थ वायुरत्नमस्ति, तेन पूजितेन ग्रीष्मातिरुपशाम्यति मनोऽनुकूलश्च वायुर्वाति / पुनरेवमेव पञ्चमे रत्ने पूजिते यथेच्छदेवदूष्यवसनानि लभ्यन्ते / ईदृशेषु पश्चरत्नेषु सत्सु लोकोपकारः क्रियताम्। इति प्रेयसीनिगदितमाकलयन् प्रमोदमानः कुमारस्तदैव जलरत्नं संपूज्य पोतस्तम्भे न्यबध्नात् / तदा तत्क्षणमेव जलवृष्टिरजायत लोकाश्च तैलैः स्वस्वपात्राण्यपूरयन् मुदिता लोकाःत कुमारं प्रशशंसुः / कियत्कालानन्तरं तत्र पोतेऽन्नमपि क्षीणमभूत् / तदा लोकानन्नविकलानालोक्य पृथिवीनामरत्नं परिपूज्य धान्यस्थानेऽस्थापयत् ततो धान्यराशिस्तत्प्रभावाज्जज्ञे / ईदृशोपकुर्वन्तमुत्तमकुमारं प्रशस्य समस्ता अपि पुरुषास्तदादेशवर्तिनोऽभूवन् / पोतनायक: समुद्रदत्तश्च रम्भोपमां महालसा तानि दिव्यरत्नानि च विलोक्य नितान्तं तदर्थ लुलुमे / तत एकदा नरकादप्यविभ्यत् समुद्रदत्तः सत्यवसरे कुमारं सागरेऽपातयत् तदा सर्वे दुःखमापुः। महालसापि तद्वियोगजं / दुःखमसहिष्णुस्तदैव मर्तुकामाभूत् / तदा सख्या भणिता-हे स्वामिनि ! मा म्रियस्व, बालमरणेन दुर्गतिरेव जायते, यतः शास्त्रेऽपि तन्निषिद्धमस्ति / अत इदानीं शीलरक्षार्थ केनाप्युपायेनाऽसौ पापीयान वञ्चनीयः / अग्रे च रत्नप्रभावेणाऽभीष्ट सेत्स्यति भर्तापि च तेऽवश्यं समेष्यति / नो चेदन्ते चारित्रं लात्वाऽऽत्मसाधनं विधातव्यमिति वयस्योक्तं साधु मत्वा सा तथैवाऽकरोत् / इतस्तमुत्तमकुमार तत्र सागरे कश्चिन्महाकायो मत्स्योऽगिलत् / ततस्तटागतं तं धीवरो जाले गृहीत्वा विददार तदुदरादुत्तमकुमारो जीवनप्यचेतनो निरगाद् धीवर उपचारेण कुमारं सज्जीचक्रे / महालसाऽपि वायुरत्नप्रभावादिनद्वयेनैव पल्लीनामबन्दरे पोतस्थिति ता॥८३॥ RAMRSACES