SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ तहि मया सह युध्यस्वेत्युदीरयन् कुमारस्तेन सह भृशं युध्वा तं पराजितवान् / स यावत्तेन सह युध्यमानो दूरं गतस्तावत् स श्रेष्ठी निजपोतमचालयत् / तत्रागत्य पोतमपश्यन्नेवं व्यचिन्तयत्-अहो ! लोकस्थितिः कीदृशी वर्तते ? यानहं तस्मादरक्षं ते त्रैव मां मुक्त्वा गताः / जगति सर्वे स्वार्थलम्पटा एव वा कोऽपि कस्यापीष्टमनिष्टं वा कत्तुं न शक्नोति / यदैवं समीहते तदेव भवति कृतं कर्म भोगेनैव क्षयं याति / अतो हे जीव ! तव धर्म एव सर्वत्र समुपकर्तास्ति, नान्यः कोऽपि, इत्येवं विचिन्तयन् फलादिनाऽऽत्मानं पोषयन् पुरश्वचाल / मार्गे च मदनमूर्तिमिव तमुत्तमकुमारमालोक्य तवीपदेवी तत्क्षणं षोडशशृङ्गारसज्जिता, हावभावादिकं कुर्वती परितः कटाक्षयन्ती मदनशरजालपीडिताङ्गी तदभिमुखी बभूव / तदने तजिगीषया प्रथमं कामराजस्य सामन्तभूतभ्रमरायितकटाक्षविशिखान्मुमोच / तदनु स्मितजितशरदिन्दुवदनविनिर्गतवाग्बाणवृष्टिमकरोत् / ततः कन्दर्पराजस्य प्रयाणसमये हृदयभूधरोपरि तत्सैन्यमेरीमिव स्तनकमलकोरकमदर्शयत् / इत्थं बहुभिर्युवजनमोहनकरहविर्भावश्च मोहितोऽपि स मेरुवनिश्चल एवादर्शि / वशीकृतात्मनां राजादयोऽपि मनागप्यनिष्टं कर्तुं न प्रभवति / यतायस्य हस्तौ च पादौ च, जिह्वा चाऽपि सुयन्त्रिता। इन्द्रियाणि सुगुप्तानि, रुष्टो राजा करोति किम् ? // 2 // ततस्संतुष्टा सा तं संस्तुवती तदने सार्धद्वादशकोटिस्वर्णवृष्टिं विधाय निजस्थानमयात् / कुमारोऽप्यग्रे गच्छन् समुद्रदत्तव्यापारिणः पोतमपश्यत् / स उत्तमकुमारं सादरं निजपोतमारोहयत् / कियदिनानन्तरं तस्मिन्नपि जलव्यये सर्वे लोकास्तृषाकुलाश्चिन्तामापुः / तत्रावसरे तत्रस्थनियामकः शास्त्रमवलोक्य जगाद मिष्टवारिपूर्णः कूपोऽत्र पर्वते विद्यते, परं ततो जलाहरणमतिक SARKANH88RS
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy