________________ अथ २-सम्पद्-लक्ष्मी-विषये-मालिनी-छन्दसिअरथ अरजि जेणे स्वायते विश्व होवे, जिण विण गुण विद्या रूपने कोन जोवे / अभिनय सुखकेरो सार ए अर्थ जाणी, सकल धरम एथी साधिए चित्त आणी // 3 // इह जगति सम्पत्तिमतामखिलं जगदश्यतां याति / तमर्थ विना महानपि गुणवान् विद्वान रूपवान शोभते / सम्पत्तिमांस्तु धीविद्यादिगुणहीनोऽपि लोके संपूज्यते सर्वेश्च रूपवान गुणवानुच्यते / यदाहलक्ष्मीभूषयते रूपं, लक्ष्मी वयते कुलम् / लक्ष्मीभूषयते विद्यां, सल्लिक्ष्मीर्विसर्वो लक्ष्म्या विशिष्यते // 1 // 16 इति हेतोः सर्वेषां गुणानां सदन, लक्ष्मीरेवास्ति लौकिकसकलविधसुखस्य मूलमपि सैवास्ति / धनेन सुख प्राप्यते पुनर्धोऽपि समुत्पद्यते / अपि च चित्तस्थैर्यमपि संभवति धनसद्भावे // 3 // / अथ संपदाऽऽप्तसुखस्योत्तमकुमारस्य २-दृष्टान्त:वाराणसीनगा मकरध्वजो राजाऽस्ति तत्पत्नी लक्ष्मरती विद्यते / तयोः पुत्रः शीलवान सत्यवक्ता दयालुन्यायनिपुणः स्वधर्मतत्परः परदाराविमुखः सन्तोषी देवगुरुभक्तिकरो धर्मानुरागी परोपकर्ता द्विसप्ततिकलाकौशलवान नाम्नोत्तमकुमारोऽस्ति / स चैकदा देशान्तरं निजभाग्यपरीक्षायै निरगात्ततोऽनेकनगरग्रामपट्टणादिकौतुकं पश्यन् चित्रकूटगिरिमागच्छत / तत्रत्यनृपस्य महासेनस्य मेवाड-मालप-मरुदेश-सौराष्ट्र-कर्णाटकप्रमुखदेशाधिपस्य निरपत्यत्वसमुत्पन्नवैराग्यस्य कस्मैचिद्योग्याय सत्पुरुषाय गुण-12