________________ दधिणा मर्दितो मण्डूको मृतः। तस्मादेतत्यापाऽपनोदनाय भवानीर्यापथिविधि प्रतिक्रम्य तदालोचनं करोतु / गुरुणोक्तम्गच्छ गच्छ मत्पादतले नैव कोऽपि दर्दुरो मर्दितः / तदनु गोचरी लात्वा स्वस्थानमागतो गुरुस्तात्कालिकं गमनागमनमालोचितवान् / तदापि शिष्येण तस्मिन् स्मारिते गुरुरूचे-अरे ! मुहुर्मुहुनिष्फलं कि षे ? मत्पादतले कापि किमपि नैव पीलितम् / तदा शिष्येणाऽचिन्ति-इदानीमनवकाशतो नाऽकारि, सायन्तनप्रतिक्रमणसमय एतत्प्रायश्चित्तमालोचिष्यते / तत्रापि प्रतिक्रमण समाप्य गुरुस्तत्पापं यदा नाऽऽलोचितवांस्तदा शिष्यो मनसि दध्यौ / एतस्य गुरोः शिरसि पश्चेन्द्रियहत्याऽलगत् संयमश्चाऽस्य दृषितो भवति / गुरुर्वृद्धत्वान बुध्यते अतो मया तद्विजानताऽसौ दोषमुक्तो विधातव्यः, नो चेन्ममाऽप्यतिचारो लगिष्यतीति विचार्य तत्रावसरे शिष्य स्तत्स्मारितवान्। तदा गुरुर्महाकोपं कृत्वा निजोषां गृहीत्वाऽतिवेगेन शिष्यं ताडयितुमधावत् / धिक कोपं ! येन रजोहरणेन जीवा रक्ष्यन्ते तेनैव स शिष्यजीव घातयितुमैच्छत् / तत्रावसरे गुरुभयेन सोऽन्यत्र पलायितः, तत्पृष्ठे धावन स गुरुनिशि तमोबाहुल्याकेनचिदपि स्तम्भन मर्मणि हतो दुर्ध्यानेन मृत्वा ज्योतिषदेवोऽभवत् / ततश्युत्वा चण्डकौशिकनामा तापसोऽभूत् स फलपुष्पमयमुपवनमकरोत् / तत्र कीडन्तो नृपकुमाराः प्रत्यहं तमुपदुद्रवुः, निवारिता अपि दुर्वारास्ते यदा न न्यवर्तन्त, तदा स तापसः कुठारमादाय तान्प्रत्यधावत् / तेषु पलायितेषु कर्मयोगात्कुत्रापि गर्ने पतन कुठारेण वक्षसि हतस्तापसो दुर्ध्यानेन मृत्वा महाकायो भीषणो नागोऽभूत् / तस्य विषज्वाला महती जाता स च लोकान् दृष्टिमात्रेणाऽपि भस्मीकुर्वनाऽऽसीत् / ततो लोकास्तन्मार्गमप्यत्यजन् / अथैकदा तेनैव मार्गेण गच्छन्महावीरस्वामी सर्पभीति निगदगिलोंकैः प्रतिषेधितोऽपि तस्य बिलोपरि कायोत्सर्गध्याने तस्थिवान् / तदा बिलाद् बहिरागतश्चण्डकोशिको महाहिर्विषज्वालामुद्मन् वीरप्रमोश्चरणं ददंश, परं स CAREENERGARIKk