SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ धर्मवर्ग: सक्तमुक्तावली॥७३॥ याहि, पर्वतस्य साहाय्यं त्वदचसा करिष्यामि / तदनु हृष्टा सा गृहमाययौ सर्वमपि पर्वतमवादीत् / अथ द्वितीयदिने पर्वतनारदौ नृपसदसि समैतां राजाऽविदितवृत्त इवाऽमनप्रयोजनं तावपृच्छत् / तदा पर्वतोऽवदत-हे राजेन्द्र ! त्वमावयोः सहाध्यायी विद्वानसि / अत आवां विवदमानौ भवत्सविधे समागच्छावः / 'अज' शब्दस्य छाग इत्यर्थों मयोच्यते नारदश्च त्रैवार्षिको व्रीहिस्तदर्थ इत्यालपति, कः साधीयानर्थ इति भवता वाच्यः ? राजा किश्चिद्विचार्य जगाद / अहन्तु पुरा गुरुणोक्तं तदर्थ त्रैवार्षिकं व्रीहिमजश्चापि स्मरामीति मिश्रवचनं जगाद / तदा नारदोऽवदत् त्वमपि जगति सत्यव्रती भूत्वा मृषा भाषसे, आश्चर्यमेतत् / अथ तत्कालमेव शासनदेवता मृषावादिनं तं वसुराज सिंहासनादधः पातयामास तेन तदैव स मृत्वा नरकमगमत् / अहो ! एवमेकवारमप्यलीकभाषणाद्यदि वसुराजस्य नारकी गतिरजायत, तर्हि भूयो भूयोऽसत्य भाषमाणस्य याहशी गतिः स्यात्सा तु केवलिवेद्यैव / अतो धर्ममर्मविद्भिः समरैरनृतं कदापि नैव भाषितव्यम् / सत्यमेव सर्वदाखिलसुखेप्सितैः सवैवक्तव्यम् / अथ २४-चौर्य-विषये. पर धन अपहारे स्वार्थपे चोर हारे, कुल अजस वधारे बंध घातादि धारे। पर धन तिण हेते सर्प ज्यूं दूर वारी, जग जन हितकारी होय संतोषधारी // 59 // तथाहि-ये केचन कुलमर्यादा हित्वा स्वार्थसाधनाय परधनानि चोरयति / तेषां लोके महती निन्दा जायते, राजदण्डकारागारनिवासादिकमाप्नुवन्ति / कुलमपि कललितं कुर्वते कुत्रचिचौरा मार्यन्ते च / अतः सादिव चौर्यादतिदूरे स्थातव्यं / सदैव स्वमाग्यानुकूलोपलब्धया यत्किश्चिदपि सम्पदैव सन्तोषिणा भाव्यम् // 59 // / / 73 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy