SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ DEALSEXSAREESEAR वतमपश्यत् / तदनु कपोतघातुकं सिञ्चानकं पक्षिणमागतं दृष्टवान् / तत्समये स श्येनपक्षी नृगिरा नृपमेवमवदत्-हे राजन् ! त्वमेकमुपकरोषि, एक हंसि परं त्वयि धर्ममर्मज्ञे नैतत्संघटते / अहं तु त्रिमिर्दिनैः क्षुधापरिपीडितोऽस्मि मां क्षुधातुरं पश्यतोऽपि तव दया किमिति नोदेति ? / मम भक्ष्यं तवाऽन्तिके समागतमस्ति तन्मे समर्पय / येनाऽऽत्मानं तर्पयाणि, क्षुधा मामधिकं बाधते, तद्वेदना मयाऽतःपरं न सह्यते / अहमाशिर्ष ते दास्यामि तत्र समये नृपोऽवदत् / हे सिंचानक ! त्वमितोऽन्यन्मार्गय, तत्ते समर्प्य तव क्षुधां | शमयामि / सोऽवक-अन्यमें प्रयोजनं किम् ? मम तु तदेवेष्यते / मम मांसाऽशनं विना कदापि मनागपि तृप्तिर्न संभाव्यते / अतस्त्वच्छरणे समागतं मां भक्ष्यमेव समर्पय / तदाकर्ण्य राज्ञाऽचिन्ति-असौ सत्यं वक्ति सर्वेषां नैसर्गिक आहार एव प्रेयान भवति / अतोऽमुष्मै मांसाऽशिने मांसमेव देयम् / परं यदि कपोतं दास्ये तर्हि कीर्तिहानिरधर्मश्च हिंसालक्षणो भविष्यति / इति स नैव देयः किन्तु तत्परिमितमांसमेव स्वाङ्गं छित्त्वा देयमस्माभिरिति विचिन्त्य तत्कालं तुलायामेकत्र तं कपोतममुञ्चत् / चैकत्र स्वजवां छित्त्वा 2 पललममुश्चत् / परं देवमायया कपोतादधिके पलले मुक्तेऽपि तत्साम्यं नाध्यगच्छत् / ततो राजा | प्रधानादिभिर्भणित:-हे स्वामिन् ! एकस्य कपोतस्य कृते निजममूल्यं शरीरं किं विनाशयसि ? नैतत्संघटते / यदुक्तम्'जीवनरो भद्रशतानि पश्येत् / परं तथापि गिरिवि धर्मनिश्चलो राजा 'देहं पातयामि कार्य साधयामि' इति निश्चित्य सकलजननिषेधमगणयनल्पैौसर्यदि तत्साम्यं न जायते तर्हि सकलैरपि शरीरमासैः स रक्षणीय इत्यवधार्य सकलं वपुः सङ्कल्प्य स्वयमेव तुलामारोहत् / तत्राऽवसरे तत्साहसधैर्य विलोक्य स निजदेवरूपेण प्रकटीभूय प्रणम्य राजानं प्रशस्य स्वस्थानमगात् / राज्ञोऽपि तनुः पूर्वतोऽप्यधिकोज्ज्वलाऽभवत् / इत्थमेव दयासु सवैरेव दाढ्य विधेयम् / PARMARWAOREA
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy