________________ धर्मवर्गः मुक्तावली॥७१॥ अथ २२-दया-विषयेसुकृत कलपवेली लच्छि विद्या सहेली, विरति रमणि-केली शांतिराजा महेली। सकल गुण भलेरी जे दया जीवकेरी, निज हृदय धरी ते साधिए मुक्ति सेरी // 55 // यथा-इह संसारे नूनमियं दया सुकृतकल्पवल्ली विद्यते / लक्ष्मीदेव्या अति स्निग्धा सखी, ज्ञानस्य सहचरी, विरतिलक्षणा या राज्ञी तस्याः केलिः शान्तराजस्य सदनं, सर्वेषां सद्गुणानां च निदानमीदृशी जीवदयां मनसि धृत्वा ये जीवानवन्ति ते निश्चयेन मुक्तिं लभन्ते। अतो हे भव्यजीवाः ! एषा जीवदया बहुगुणा विद्यते / एनामवलम्ब्य बहवो जीवाः संसारसागरमतरन् तरिष्यन्ति तरन्ति च / " सव्वे पाणा सव्वे भूआ, सव्वे सत्ता सव्वे जीवा न तव्वा " इति सकलतीर्थकृतामादेशः सर्वैरेव भव्यजीवैः सादरेणातिमान्यः // 55 // निज शरण परेवो शेनथी जेण राख्यो, षटदशमजिने ते ए दया धर्म दाख्यो। तिह हृदय धरीने जो दया धर्म कीजे, भवजलधि तरीजे दुःख दूरे करीजे // 56 // अन्यच्च-यथा षोडशस्तीर्थङ्करः शान्तिनाथो भगवान् निजशरणमागतं पारावतमवन् दयाधर्ममदर्शयत् / इत्थमन्योऽपि कोऽपि दयालुर्दयासु वर्तिष्यते, स भवप्रपश्चान्मोक्ष्यते / इति सर्वतः प्रधाना दया विधेयैव // 56 // __कपोतदयापालनोपरि मेघरथराजस्य ४५-प्रबन्धःपुरा श्रीशान्तिनाथजीवो दशमे भवे मेघरथाऽभिधो राजाऽभूत् / स चैकदा सदसि सुखासीनः समागतं वेपमानमेकं पारा // 71 //