SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ मार्गय, यत्त्वं याचिष्यसे तदवश्यमहं ते दास्यामि तत्र शङ्कांमा कृथाः। ममाशोकवाटिकायां गृहं वा याहि मनसि समालोच्यात्राऽऽ. गच्छ / ततो नृपोक्तमाकर्ण्य तत्र गत्वा स चिन्तति स्म तथाहि-नृपो मे यथेप्सितं दित्सति मया कियत् किं याच्यं ? शतं द्विशतं पञ्चशत सहस्रमयुतं लक्ष कोटिपर्यन्तमधावत्तन्मनः परमथाऽपि तृष्णां न जहौ / ततोऽप्यधिके दधाव किमधिकं तद्राज्यजिघृक्षाऽप्युदपद्यत / प्रान्ते कुत्राऽपि मनःस्थैर्यमनधिगत्य मनस्येवं दध्यो-सर्वा अपि सम्पदः क्षणिकाः सन्ति / मामेते विनश्वराः पदार्था हास्यन्ति, किमहमप्येतान्न त्यक्ष्यामि ? इत्थं शुभकर्मोदये भवप्रपञ्चेऽपगते संयमरसलीनो व्यचिन्तत्तदा कपिलः / तथाहि जहा लाहो तहा लोहो, लाहा लोहो पवद्इ / दो मासकणयकजं, कोडीए वि न निट्टियं // 1 // प्राणिनां यथा यथा लामो भवति, तथा तथा लाभाल्लोभो वर्धते / तत्रैव दृष्टान्ततया दर्शयन्नाह-दो मासेति पुरा माषयमात्रस्वर्णकृते ममाऽऽसीद्या तृष्णा सा कोट्यापि न निष्ठितार्था-तृप्ता नाऽभूत् किन्तु ततोऽप्यग्रेऽग्रेऽधिकतया च वयुधे / अतः सैव सर्वाधिकक्लेशकरी, केवलमेकः सन्तोष एव जगति सर्वाऽतिशयसुखदायीति मत्वा स कपिलद्विजस्तत्क्षणमेव पञ्चमुष्टिलुञ्चनं विधाय नृपान्तिकमागात् / तदनु यदा नृपाय धर्मजामं दत्त्वा समस्थित / तदा तं नृपोऽपृच्छत्-भोः ! किमकारि ? तेनोक्तम्-पदादिष्टं भवता तदेव श्रेयस्करं विदित्वा चारित्रमग्राहि / अथोत्थाय नृपेण नमस्कृतस्ततो विजढे मार्गे च पंचशतचौरान प्रत्यबोधयत् / तदनु निर्मलमप्रतिपाति केवलज्ञानमाप्य स कपिलमुनिमोक्षमयासीत् / तस्येव यो लोभं त्यक्ष्यति स सुखी भविष्यति, यो न त्यक्ष्यति स महादुःखी भविष्यति नरकादिके च / अतोऽधिकलोभो हेय एव सद्भिः //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy