SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ मुक्तावली॥७ // ततः पापोदयात्ससैन्यं चक्रवर्तिचर्मरत्नं तदैव तल्लवणाब्धौ ममज्ज / सर्वे कालं चक्रः, अहो ! देवा अपि यमसेवन्त, तस्याऽपि धर्मव: चक्रवर्तिनो लोभाऽऽधिक्यानाशोऽभूत्तहि परेषां का वार्ता ? इति हेतोर्महाक्लेशकारी लोभोऽसौ सर्वथैव हेयः / कनक-गिरि कराया लोभी नंदराये, निज अरथ न आया ते हर्या देवतायें ! सकल निधि लहीजे स्वायते विश्व कीजे, मन तिणधिन रीझे लोभ तृष्णा न छीजे / / 54 // अन्यच्च शृणुत-पुग प्रसिद्विभाग नन्दनामा राजो स्वर्णगिरिमकृत परं तस्योपभोगस्तेन नाऽकारि, किन्तु देवैरपहृतः / स तु तृष्णोदधिनिमग्न एव कालेना ग्रासि / सर्वान् निधीन सर्वाश्च वसुधामासाद्याऽपि लुब्धस्य मनः कदापि न विरमति / किन्तु घृताहुत्या वह्निरिवाऽधिकं वर्धत एव // 54 // अथ लोभत्यागात्प्राप्तकेवलज्ञानस्य कपिलद्विजस्य ४४-कथा___यथैकस्मिन्नगरे कश्चिद्राजा प्रभाते माषद्वयं सदैव स्वर्ण दातुं सङ्कल्पितवान् / तत्स्वरूपं तत्रस्थः कपिलनामा कोऽपि विद्यार्थी विप्रः श्रुत्वा लोभग्रस्तत्वात कियती रात्रिरवशिष्यत इत्यजानन्मध्यरात्र एव समुत्थाय स्नातानुलिप्तो भूत्वा तल्लातुकामो नृपसौधम्प्रत्यचलत् / मार्गेऽथ रक्षकैश्चौरधिया गृहीतः प्रभाते तं नृपान्तिकमनयत् / अथ परीक्षया नाऽसौ चौर इति निश्चित्य राजा तमपृच्छत् / भोः कस्त्वम् ? तेनोक्तं राजन् ! दास्या लक्ष्म्या प्रेरितस्त्वदन्तिकमागच्छन्नहं रक्षकेण तस्करघिया गृहीतोऽ | भूवम् / तदाकर्ण्य राज्ञाऽचिन्ति, अहो ! ममैतनगर ईदृशो दरिद्रो वसति / तदनु करुणया राजाऽवक्-भो ब्राह्मण ! त्वमीप्सितंटा
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy