SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अथ २१-लोभ-विषयेसुणि वयण सयाणे चित्तमा लोभ माऽऽणे, सकल व्यसन केरो मार्ग ए लोभ जाणे / इक खिण पण एने संग रंगे म लागे, भव भव दुख दे ए लोभने दूर त्यागे // 53 // भो भो लोका ! यूयं धूर्तादेमिष्टवचनश्रवणेन मनसि मनागपि लोभ मा कुरुत यदसौ व्यसनाद्यसत्कृत्यानां मूलमस्ति सर्वापदां च निदानमस्ति / लेशतोऽपि लोभसङ्गमे कृते सति जन्मजन्मान्तरीयं दुःखमाप्नुवन्ति नराः / यतो लोभेन चलचित्तास्ते परत्र रौरवीयां वेदनामिहापि चातिदुःखानि सहन्ते / अतः सर्वप्रकारेण लोभस्त्यक्तव्यः / / 53 // अथ लोभेन क्लिश्यतः सुभूमचक्रवर्तिनः ४३-कथापुरा किल सुभूमचक्रवर्ती भारतस्य षट्खण्डानि साधयित्वा लोभग्रस्तोऽभवत् / सर्वतोऽधिकोऽहं भवेयमिति बुद्धया धातकीखण्डस्याऽपि तावन्ति खण्डानि साधयितुमैच्छत् / तदनु लवणसमुद्रे देवसहस्रवाह्य चर्मरत्नममुञ्चत् तत्र च सकलबलयुतः स आरूढवान् / ततः सहस्रदेवास्तच्चर्मरत्नं नीत्वा सागरान्तश्चेलुः / कियहरं गत्वा तेष्वेको देव एवं दध्यौ-अहो ! भारतस्य षटखण्डसाधने कियन्तो वर्षा याताः। पुनरिदानी यत्रैकमपि खण्डं कदापि केनापि न साधितं, तत्र पदखण्डसिपाधयिषयैष प्रयाति / कियद्भिवर्षे H साध्यं स्यादित्यनुमातुमपि न शक्यते / अत एकदा गृहं समेत्य प्रेयसी मिलित्वा पुनरिहाऽऽगमिष्यामि / तावदेकस्मिन् मयि गते चर्मरत्नवाहने कापि हानिन स्यादिति विचिन्त्यैको देवस्तन्मुक्त्वा गतः / इत्थमनुक्रमेण सर्वेऽपि तथा विचिन्त्यैकदैव तत्तत्यजुः / RECERRIBERSARK
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy