________________ धर्मव:१ मुक्तावली॥६९॥ K424 जगहः / अयमेतत्सारांश:-सुयोधनो मानी भवन् सकुलो यथाऽनश्यत् तथैव गर्वकारिणामन्येषामपि सर्वनाशो भवति / अतोऽहङ्कारः सर्वथा सर्वैरेव त्याज्यः / अथ २०-मायोपरि सदुपदेश:निठुरपणु निवारी हीयड़े हेज धारी, परिहर छल माया जे असंतोषकारी / मयुर मधुर बोले तो हि विश्वास नाऽऽणे, अहिगिलण प्रमाणे मायिने लोक जाणे // 51 // इह जगति ये मायाविनो भवन्ति, ते मुखे मधुरा हृदये तु निर्दयाः क्रूरतामेव ध्रियन्ते / भव्यानपि निजकपटजाले पात यन्ति / सन्तोषलेशोऽपि तन्मनसि नैव तिष्ठति / मायाविनां मधुरवचनेऽपि विश्वासो न भवति कस्यापि / यथा-मयूरो मिष्टमालपन्नहि सपुच्छं गिलत्येव / अतो माया हेया, विदितप्रायमेवैतत् यन्मल्लिनाथस्वामी यावज्जीवं सावध किश्चिदपि नाचरितवान, केवलं मायया तपोवृद्धिमकृत, तावतैव तस्य स्त्रीवेदं कर्म बद्धमभूत् / अतो भवभीरुभिरुत्तमजनस्त्याज्यैव माया / / 51 // मकर म कर माया दंभ दोषदु छाया, नरय तिरिय केरा जन्म दे जेह माया। बलिनृप छलवाने विष्णु माया वहंता, लहुयपणु लघु जे वामना रूप लेता // 52 // किञ्चेयं मायादोषरूपा विषवृक्षवल्ली विद्यते। जनांश्च नारकतिर्यग्गति नयति। अतो हे लोका ! यूयं तां मायां मा कुरुत / बलिनृपवश्चनाय वामनीभ्य वासुदेवोऽपि श्रीकृष्णो लोके लघुतामापत् / ये कपटिनस्तत्सङ्गतिरपि त्यज्यताम् / यतस्ते मायाविनोऽतिप्रियतमानिजमातापित्रादिस्वजनानपि कर्मबन्धनमवगण्य कुबुद्ध्या वञ्चयन्ति / भव्यानपि स्त्रीयकपटजालेनाऽधोगति प्रापयन्ति // 52 // | // 69 //