SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ हा धर्मवः एक- / मुक्तावली॥६५॥ पत्, ततः स्वशिष्यं कृतवान् तस्य च वल्कलचीरीति नाम चक्रे / अथैकदा तत्राश्रमे समुपविष्टः स तत्पात्राणि कौतूहलात्पश्यन् तत्र धर्मक्रियोपकरणं ददर्श / तदनु तदर्चनपात्रप्रमार्जनादिकं वीक्षमाणः स ऊहापोहाभ्यां जातिस्मृतिमलब्ध / तेन स भवान्तरीयं स्वस्वरूपमपश्यत् / तत्र यत्तेन चारित्रं पालितं तदपि ज्ञातम् / अत इदानीमपि शुभां भावनां भावयन् स क्षपकश्रेणीमधिरुह्य केवलीभूय मोक्ष प्राप / अतो धर्मभावनाभावनं श्रेयस्करमवसेयं सत्प्राणिभिः / / पुनरपि भावनोपरि बलभद्र-मृग-रथकाराणां ४०-कथातथा हि-द्वारिकापुर्यां कृष्णवासुदेव-बलदेवो राज्यं चक्राते / तत्राज्यदा तत्पुत्राः शाम्ब-प्रद्युम्नादयो वनं गत्वा बाल्यचापल्याद् द्वैपायनमृषि लोष्टयष्टयादिना ताडयामासुः / तदाऽतिपीडितः स ऋषिस्तेभ्यः शापमेवं दत्तवान् / भो भो दुष्टाः ! यात यात, मत्पीडां कुर्वतां युष्माकमिमां द्वारिका नगरीमग्नि त्वा भस्मसात्करिष्यामीति / अथ स ऋषिस्तादृशानदानकरणेन मृत्वाऽग्निकुमारोऽभूत् / ततः सोऽग्निकुमारो देवस्तौ वासुदेवबलदेवो मुक्त्वा पदपश्चाशत्कोटिनगरान्तर्वासिलोकैस्तथा पुरादहि सिद्विसप्ततिकोटियादवैः सहितां द्वारिकापुरी सकलां भस्मसादकरोत् / तदनु तो कृष्णबलभद्रौ वनमुपेतौ। तत्र कृष्णस्तृषातों जातस्तदा बलभद्रो जलमानेतुमगमत् / कृष्ण एकस्य तरोस्तले चरणोपरि चरणं निधाय सुष्वाप / तावद्यो हि पुरा स्वेन कृष्णस्य मरणं नैमित्तिकोक्तमाकलय्य तन्मुधा कर्तु वने वसति स्म स जराकुमारः कृष्णबन्धुईरतस्तत्पदे पद्ममालोक्य मृगभ्रान्त्या वाणं क्षिप्त्वा तदीयचरणमविध्यत् / अथ समीपागतस्तमुपलक्ष्य नितरामखिद्यत / तदा खेदेन किं स्यात् ? यद्भाव्यमासीत्तज्जातमेवेति मिष्टवाक्यैः कृष्णस्तमवक्-हे बन्धो ! त्वं मा शोचीः, गृहं याहि / नो चेबलभद्रः समागत्य त्वां हनिष्यति / किश्चिदपि BRॐकास R5E5453 // 65 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy