SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ BECRRRECR**EXPRESEARRECE पर प्रभोः प्रत्युत्तरमनासाद्य प्रभोरुपोषणमस्तीति जानन् गृहमागात् / सम्पूर्णेऽथ तत्र व्रते प्रगे समागतः स प्रभुं वन्दनानन्तरमभ्यर्थयत् / प्रभो ! अद्य पारणाकृते मद्वेश्म पवित्रीकृत्य लाभो देय इति / यथाऽवसरमिति प्रत्युत्तरमादाय दृष्टः स गृहमेत्य लघुकपाटसमीपे भगवदागम प्रतीक्षमाणस्तस्थौ। अयमागच्छति प्रभुरिति भावयन चिरं तत्रैव तस्थौ। निर्ममः प्रभुस्तु कस्यचिदभिनवपूर्णश्रेष्ठिनो गृहमागात् / धर्मानुरागमनधिगच्छन् यथा तथा भिक्षु मत्वाऽश्वाऽशनकृते पाचितं मापं स तस्मै वीरस्वामिने दत्तवान, तावत्तत्र गगने देवदुन्दुभिर्दध्वान / तच्छ्रुत्वा प्रभुणा क्वचिद्गहे पारणाऽकारीति तेनाऽवेदि / तदैव भावनावृद्धिस्तस्य च्छिमाऽभूत् / परं पूर्वमेव स भगवदागर्म प्रतीक्षमाणो भावनां भावयन् द्वादशाऽच्युतदेवलोकपर्यन्तां क्षपकश्रेणीमारूढवान् / यदि किञ्चिकालमने सा भावना तस्य तिष्ठेतहि मोक्षमप्याप्नुयात् / परन्तु देवदुन्दुभिध्वानमाकर्ण्य सा भावना तदैव त्रुटिता / अतोऽग्रे तस्य भावनावृद्धिर्नाऽभूत् / इति हेतोर्भावनामाहात्म्यात्स जीर्णश्रेष्ठी मृत्वा द्वादशे देवलोके समुत्पेदे / इत्थं भावनायाः सर्वतः प्राधान्यं महत्त्वं चाऽवगन्तव्यं सर्वैभव्यजनैः। अथ पुनरपि भावनाविषये वल्कलचीरिणः ३९-प्रवन्धःयथा-पोतनपुरनगरे प्रसन्नचन्द्रस्य राज्ञो भ्राताऽश्वारूढः क्रीडार्थमुद्यानं व्रजन्नुन्मार्गेण गच्छताऽश्वेन बहु दूरं नीतः सायमपि गेई नाऽऽगात् / तदा राजा लोकैस्तस्य शुद्धिं सर्वतः कारयामास, परं क्वाऽपि तच्छुद्धिर्न मिलिता। इतश्च स राजकुमारः कस्यचितापसस्याऽऽश्रमे सम्प्राप्तः / तस्य च कुमारपित्रा सह गाढसंबन्धः पुराऽऽसीत् / तेन स तापसस्तं महता स्नेहेन स्वाश्रमेऽतिष्ठि
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy