________________ E S परिणयो भवेत / ताभ्यामुक्तम्-हे पुत्र ! त्वामावां तत्पुत्र्या अप्यधिकसुन्दरी कन्यां परिणाययिष्यावः, सत्सार्थ मागाः / पर सर्वानवमत्य स नटेन साकं तद्वेषेण निरगात् / तदनु स तत्सार्थे तिष्ठन् तदीयनृत्यादिविद्यासु नैपुण्यमधिगत्य नाटकं कर्तुं लग्नः / प्रतिदिनमेवं कुर्वन् धनमर्जयित्वा तस्मै नटाय समर्पयत् / अर्थकदा नव्या सह वेनातटनगरमगात् / तत्र राजानममिलत, सोऽपि तस्य नाट्यं कर्तमादेशश्चक्रे / अथ नृपादिसकलपौरजनसुमण्डितप्रदेशमध्ये एलाचीकुमारो वंशमेकं समारोप्य चटित्वा तदुपरि नाटकं कर्त लग्नः / अधश्च नटी मृदङ्गं वादयामास / तदा नटीरूपं विलोक्य तत्क्षणं मदनशराऽऽहतो नृपो मनसि यद्यसो नटो नीचैः पतित्वा म्रियेत, तदैनां नीं सुखेन प्राप्नुयामिति दुर्ध्यायन कृष्णलेश्यागृहे न्यपतत् / इतः स नटो वंशोपरि निराधारादिनानाविधं नाटकं विधाय दर्शकानां मनांसि समरञ्जयत् / सर्वे दर्शका रञ्जन्तस्तं नटं प्रशंसयामासुः / ईदृशं नाटकं केऽप्यन्ये कुत्राऽपि न चऋरिति सर्वे द्रष्टारो जगदुः / अथ वंशादवतीर्य नटो राजानं प्राणमत् / नृपश्चैवमवादीत-हे नट ! अत्र किं तिष्ठसि ? पुनर्वशोपरि चटित्वा नाट्यं दर्शय / विलम्ब मा कुरु, तदा धिक्तं धिक् तमित्यर्थको ढीगां ढीगामिति मृदङ्गनाद उदपद्यत / अन्ये द्रष्टारस्तस्मै पारितोषिकं ददुः / तद्गणान गायन नृपादेशात पुनर्वशाग्रे चटितो नटः / सर्वे लोका आश्चर्यमापुः, कदाऽसौ वंशाग्रादधः पतित्वा मरिष्यति / इति प्रतीक्षमाणो राजा दुर्ध्यान एव निमग्न आसीत् / द्वितीयवारमपि नाट्यं कृत्वाऽध उत्तीर्य नृपाग्रे समागतः / तदाऽपि नृपेणोक्तं-मो नट ! मुधा बहुधाऽधः किमवतरसि ? पुनरपि वंशाग्र एव नाटकविधानेन सर्वान रञ्जय / अलमधुना विलम्बेन, मुहर्मुहुरेवं नृपादेशं शृण्वन्तः सर्वे दर्शकाः स नटश्च मनस्येवं दध्यु:-अहो! मुहर्मुहुरस्यैवमादेशकारिणो EX BSS