SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ धर्म धर्मवीर सुकावली॥६३॥ सोऽन्यदाऽऽदर्शभवने समुपागतः सुखासीनः शरीरशोभा वीक्षितुमलगत् / सर्वाङ्ग शोभमानमालोक्य केवलमनामिकामेव मुद्रिका- विहीनतयाऽभव्यामपश्यत् / तदा तेनाऽचिन्ति सर्वाङ्ग मे समूषणं शोभते / इयमेकैवाऽङ्गुली तद्विहीना न शोभते / अहो ! यदेकाप्यनामिकाऽऽभरणवियुक्तेति सर्वाङ्गं साभरणमपि शोभा न धत्ते / यद्यखिलेष्वाभरणं न स्यात्तदा शरीरस्य शोभा कीदृशी स्यात् ? इति विचिन्त्य सर्वाङ्गेभ्य आभरणान्यपाकरोत् / तदा तच्छरीरं विच्छायमपश्यत् / तदैव सोऽनित्यभाव भावयन क्षपकश्रेणीमधिगच्छन् घात्यं कर्म क्षपयित्वा केवलज्ञानं प्रपेदे / तत्कालं साधुवेषं तस्मै शासनदेवता ददौ। तदा दशसहस्रनृपैः सह स ततो विजहे / चिरं पृथिवीं पवित्रयन् जनान् प्रतिबोधयन्नष्टापदतीर्थमागत्य घात्यानि कर्माणि निहत्य भरतचक्रवर्ती मोक्षमियाय एतदनित्यभावनायाः फलमवगन्तव्यं सर्वैभव्यैः।। एतस्मिन्नेव विषये एलाचीकुमारस्य ३७-प्रबन्धःयथा-एलापुरवर्धनाऽभिधे नगरे कस्यचिदिम्यस्य व्यवहारिण एलाचीपुत्र आसीत् / स शैशवानन्तरं द्विसप्ततिकलासु निपुणो जज्ञे मातापित्रोच प्रेयानभूत् / तत्रैकदा कश्चन नटमण्डल आगात् / तत्पुत्रीमतिरूपवतीमालोक्य स नितरां मुमोह / ततः स नटमवकू-मो नट ! निजपुत्रीं मे देहि / नटेनोक्तम्-भोः कुमार ! लोके सर्वैः स्वजातिमध्ये पुत्री दीयते। त्वं विजातीयोऽसि! अतस्ते सुतामेनां न दित्सामि | पुनस्तेन प्रचुरधनलोभे दर्शिते नटोऽवदत्-भोः कुमार! यदि मम पुत्री परिणेतुमिच्छसि, तहि मद्वेषेण मत्सविधे स्थित्वा नाटकी विद्यां शिक्षस्व / कमपि राजानं च विद्यया प्रसाद्य धनमर्जय तदा ते पुर्वी दास्यामि / तद्चोङ्गीकृत्य स पितरौ जगाद-हे पितरौ ! अहं किल नटवेषेण तत्सार्थे स्थातुमिच्छामि युवामनुज्ञां दत्तम् / यतो मे तत्पुत्री CTOR-COLOR
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy