SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ I धर्मवर्गः१ मुकावली- तत्पतिवार कुर्वन् द्वादशवर्षेषु गणिकालयस्थः सेवमानश्र तां द्विचत्वारिंशत्सहस्रजीवान् प्रतिबोध्य प्रभोस्तथा स्थविराणां समीपे प्रेषितवान् / तेऽपि तत्प्रतिबुद्धास्तयोरन्तिके दीक्षा ललुः। इत्थं द्वादशस्तस्य कर्मसु क्षीणेष्वेकदा स नवजीवान् प्रत्यबोधयत् / तदा दशमो नाडिन्धमः समागात / तेनोक्तम्-किम्भोः ! त्वं सर्वान् प्रतिबोधयसि, परं स्वयं गर्हितां गणिकां सेवमानः कथं न प्रतिबोधमाप्नोषि ? | तत्राऽवसरे पाके सम्पन्ने भोजनार्थ तदागमं प्रतीक्षमाणा कालातिक्रमे पाकेऽपि च शैत्यं गते सा तदन्तिकमेत्य मधुरया भाषया भोक्तं तमाजुहाव / तेनोक्तम्-त्वं याहि, अहमागच्छामि / साऽपि गत्वा पुनः पाचिता भोजनसामग्री सम्पन्ने च पाके तदन्तिकं | द्वित्रिवारं दासीमप्रेषीत, तथापि तमनागतं वीक्ष्य स्वयमागत्य सा जगाद-हे स्वामिन् ! उत्तिष्ठ, वेलाऽतिक्रमो जातो मामपि च नितरां क्षुधा बाधते / तेनोत्तरितं दशममप्रतियोध्य कथमुत्तिष्ठेयं ?, तच्छ्रुत्वा तया किश्चिदाक्रोशमयप्रश्रयेण स भणितः / एष कामुको यदि न वेत्ति तहि स्वयापि गन्तव्यम् / इत्युक्त्वा पुनयंगदत-हे नाथ ! इहेदानी दशमो न दृश्यते, स्वमेव दशम जानीहि / इत्युतिष्ठ भुक्ष्व, तदुक्तमाकर्ण्य तरक्षणमेव सर्पः कञ्चुकमिव क्षीणकर्मा स गणिकालयं त्यक्त्वा धर्मध्वजमुखवखाद्युपकरणानि च लात्वा प्रभोरन्तिक्मागात् / अथ पुनश्चारित्रं लात्वाऽऽत्मार्थमसाधयत् / इदमत्र सारतयाऽवधार्यम्-यथा स तपोमाहात्म्यातृणमात्रग्रहणेन दीनारराशिमकरोत् / तत्तपोमाहात्म्यं ज्ञात्वाऽन्यैरपि तथा सादरं तपो विधेयम् / पुनरय मुनिभोंग्यकर्मोदयाद्यथा चारित्राच्च्युतोऽपि शुभकर्मप्रादुर्भावात्स्वल्पादपि वेश्यावचनान्प्रतिबोधमाप, तथैवान्यैर्धर्मभ्रष्टैरपि भवभीरुभिः प्राणिभिनिजात्मधर्मे प्रमादं विहाय प्रयतितव्यम् / BEATREEKRE // 61 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy