SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ बक्तमुक्तावली धर्मर्गः:१ तदा गौतमस्तानशिक्षयत | भो महाशयाः ! तत्र गत्वा यथाऽहं गुरुं वन्देयं, तथा भवद्भिरपि वन्दनीयस्तैरपि तदुक्तमङ्गीकृतम् / ते निजोत्पलं केवलं तस्य नाऽऽचचक्षिरे / अथ प्रभोः समवसरणमागत्य गौतमः प्रभु यथाविधि ववन्दे पृष्ठे च तानपश्यन् केवलिपकृत्युपविष्टानशेषानद्राक्षीत् / तदानीं तानवोचत गौतमः / भो महाशयाः! पूर्व शिक्षिता अपि भवन्तः प्रसुवन्दनामकृत्वा तत्र कथमुपाविशन् ? भत्राज्ञसरे भगवतोक्तम्-हे गौतम ! केवलिनामेतेषामाशातनां मा कृथाः, तदा गौतमः प्रभुमपृच्छत् / हे प्रमो। मम केवलमुदेष्यति न का ? प्रभुणोक्तम् / तवाऽपि चरमे वयसि तदुत्पत्स्यते / तच्छ्रुत्वा गौतमो जहर्ष / एतस्याः कथायाः सारत्वेनत ग्राममस्ति / यथा-गौतमस्तपोभिर्मही लन्धिमाप, तबलेन दुष्करामपि तीर्थयात्रामकरोत, शुत्तरसार्थसहसवापसानभोजयत, तथाऽन्यैरपि तपः कृत्वा लन्धि प्राप्य कर्मोन्मूलन कार्यम् / पुनस्तपःप्रभावविषये नन्दिषेणमुनेः ३४-प्रबन्धःयथा-राजगृहनगरे श्रेणिकराजस्य नन्दिषेणनामा तनयोऽभूत् / स यौवने पित्रा पञ्चशतकन्याभिः पर्यणायि / तत्राऽन्यदा महोद्याने वीरप्रभुरागत्य समवसरत् / तं वंदितु सपरिवारः श्रेणिकराजस्तत्रागात् भगवन्तं वन्दित्वा देशनां सर्वेभृण्वन् तदा भगवद्वाणी श्रुत्वा प्रतिबुद्धो नन्दिषेणः स्वालयमेत्य मातापितरौ संयमानुन्नामयाचत / तदा ताभ्यां गृहवासाय बहुमिदृष्टान्तैः प्रतिबोधितोऽपि स तत्क्षणमञ्जसा वीरप्रभोरन्तिकमागत्य चारित्रप्रदानार्थमम्यर्थयत / तत्रावसरे चाकाशवाण्यप्यमव-अस्येदानी भोग्यकर्मोदयोऽवशिष्यत इति / भगवताऽपि तथैव भणितम् / सर्वमगणयन मनसि च योऽधुना मया त्यज्यते सोधे मां कथं
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy