________________ कि भोक्ष्यध्वे ? तैरुक्तमू-स्वामिन् ! पश्चामृतमशितुमद्य नो वाञ्छा जागर्ति / तद्वचः श्रुत्वा स्वयमेव गोचयें पुरं प्राविशत् / कश्चि त्सद्गृही भक्क्या तस्य पायसं प्रत्यलाभयत् / तल्लात्वा समागते गौतमे ते दध्युः / अहो ! इयता पायसेनाऽस्माकं तिलकमपि न सम्पत्स्यते, तर्हि तृप्तिः कथं भविष्यति ? / यावदेवं विचिन्तयन्ति, तावद्गीतमेनोक्तम्-मो महानुभावा ! युष्माभिः समागम्यतां तदनु भोजनार्थमेकस्यां पङ्क्तौ सैकपञ्चशततापसानुपावेशयत्, तावतस्तानपरपक्तौ, तृतीयस्यामपि तावतस्तांस्तापसानुपावेशयत् / इति परिपाट्या समुपविष्टांस्तापसानशेषान् तत्र पायसे / अक्षीणमानसी' लब्धिरिति मन्त्रमुच्चार्य निजाटमारोपयन परिवेष्य यथेच्छमभोजयत् / तदा स तानपृच्छत्-कि मोः ! कस्यचित् किश्चिदपेक्षते ? तैरुक्तम्-वयं सर्वे तृप्ता अमम / ततस्तत्पात्रादाष्ठे समुद्धृते पुरानीतप्रमाणं पायस तत्पात्रेऽवशिशेष, तावता पायसेन स निजतृप्तिमकरोत् / तत्राऽवसरे तेषामश्नतां सद्भावनां भावयतामेकपकृत्युपविष्टानामेकाधिकपश्चशततापसानां तत्कालमुज्ज्वलं केवलज्ञानमुत्पेदे। ततोऽग्रे चलन स तैः पृष्टः-हे स्वामिन् ! कुत्र गच्छसि ? तेनोक्तम्-निजगुरुसमीपम् / पुनस्तैरुक्तम् भवतो गुरवः कीदृशाः सन्ति ? तदा गौतमो गुरुन् वर्णयन जगाद-भोः तपस्विनः ! मम गुरोः खरूपमाकर्णयत / नूनमिह काले साक्षात्कल्पद्रुमोऽस्ति / स खलु-अष्टविधमहाप्रातिहार्यरूपया बाह्यलक्ष्म्या शोशुभ्यमानोऽस्ति / सदा त्रिदशगणैः सेव्यमानो वर्तते / त्रिभुवननायकः छत्रचामरसिंहासनादिभिर्विराजते / इत्थं गुरुतरगुरुवर्णनमाकर्णयतां तेषामेकोत्तरपञ्चशततापसानां केवलज्ञानमुदपद्यत / ततोऽग्रे गत्वा समवसरणमालोक्य ते पप्रच्छु:-हे स्वामिन् ! किमेतद्विलोक्यते ? गौतमोऽवदत् / एतन्मम गुरोः समवसरणं विद्यते, तच्छ्रत्वाऽवशिष्टकोत्तरपञ्चशततापसानामपि केवलज्ञानमुत्पन्नमभूत् / इत्थं ते युत्तरपश्चदशशततापसाः सर्वे केवलिनो बभूवुः /