SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ धर्मवः एकावली // 59 // 'तप बल लहि लब्धी गोतमे नंदिषेणे, तप बल वपु कीधु विष्णु वैक्रीय जेणे // 44 // तपो विना कर्माणि निर्जरतां न यान्ति / तथा तदाराधयतां जन्मजरामरणानि बिलीयन्ते / ततस्ते सुखेन मोक्षमधिगच्छन्ति / तपसः प्रभावादेव गौतम-नन्दिषेणप्रमुखा लन्धिमापुः / किञ्च-तन्माहात्म्यतो विष्णुकुमारो वैक्रिय लक्षयोजनप्रमाणं विग्रहमकार्षीत, पुनरन्यायवर्तिनं मरीचिप्रधानं मारयामास // 44 // तपःप्रभावोपरि लब्धिमतो गौतमस्वामिनः ३३-कथानकम् - श्रीमहावीरस्वामी भगवानेकदा देशनाकाले किलैवं जगाद / तथाहि-ये खलु स्वलन्ध्याष्टापदतीर्थयात्रा कुर्वन्ति, तेऽवश्य सिद्धयन्ति / तदाकर्ण्य गौतमस्वामी भगवदामा लात्वा तथाकर्तुमचलत् / अनुक्रमेणाऽष्टापदतीर्थसमीपमागतः / तत्र पूर्वतः संस्थितास्यधिकपश्चदशशततपस्विनस्तमालोक्य परस्परमूचुः-अहो ! वयं तपःकशा एनमारुह्य यात्राकर्तुं न शक्नुमस्तहि करीन्द्रवत्स्यूलोऽसौ तदुपरि चटिरवा तां विधातुं कथं शक्ष्यति ? अथ गौतमोऽपि सूर्यकरावलम्बनतस्तमारुरोह / तत्रावसरे तं वीक्ष्य ते तापसा एवं निश्चिक्युः / नूनमसौ लब्धिमानस्ति / नो चेत्कथमेतत्सम्भाव्यते / भवतु, यदाऽसौ पुनरत्र परावर्त्यति तदा वयमपि सर्वे तरुं कृत्वा लब्धिमाप्स्यामः / इतस्तदुपरि समागतो गौतमश्चतुरष्टदशद्विकानीत्यनुक्रमेण भरतप्रतिष्ठापितस्वर्णमयचतुविशतिजिनेन्द्रबिम्बानि दर्श दर्श भावस्तवचैत्यवन्दनं विधाय जगच्चिन्तामणेः सकलां स्तुति कृत्वा चैत्याद् बहिरागत्योपाविशन् / तावत्तत्र तिर्यगजम्भकदेवीभूतो वज्रस्वामिजीव आगात् / तम्प्रतिबोध्य, स तदुसीर्य नीचैराययो / तत्रावसरे ते सर्वे तापसास्तच्चरणयोनिपेतुस्तच्छिष्याश्च जाताः। ततस्तैः सह मार्गे गच्छन् स गौतमस्वामी कमपि ग्राममासाद्य तानपृच्छत् / भोः तपस्विनः ! यूयं // 59 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy