________________ मुक्तावली 4 // 58 // सखी वक्ति मया सम्यगालक्ष्यैवाऽमी सुदर्शनसुता इत्युक्तं, अत्र सन्देहं मा कृथाः / तदाकर्ण्य राशी मनसि विचिन्तयति, नूनं स धर्म मां वञ्चयित्वा गतः / अतस्तं केनाऽप्युपायेन मारयाणि तर्हि वरमिति ध्यात्वा सीमन्तमुन्मुच्याऽऽभरणानि सर्वाणि विमुच्य जीर्णमश्वकोपरि चिन्तातुरीभूता सा स्थिताऽभूत् / ततः क्षणानन्तरं तत्र राजाऽऽगात् / राजा तां तथाऽऽलोक्यापृच्छत्-अयि प्रियतमे ! अद्य ते किञ्जातम् ? यदेवं सुप्ताऽसि, तदा राज्ञो महाग्रहेण साध्वक्स्वामिन् ! अतः परमियं नगरी वसितुं न युज्यते / राजाऽवक्तत्कारणं ब्रूहि ? केनापि तव किमप्यपराद्धम् / अज्ञाते सति कथं तदुपायं करोमि? अतः सत्वरं निजदुःखस्य कारणं वद / येन तदुपायं विधाय सत्वरं त्वां सुखिनी विदधीय / इत्याकर्ण्य साऽवक्हे महाराज ! यदा त्वं रथवाटिकामगास्तदा सुदर्शनः श्रेष्ठी मदन्तिकमागत्य हठान्मच्छीलं भक्क्तुं बहु प्रयत्नमकरोत् / तदवाच्यमेव विद्धि / देवेनैव तदा मे शीलं रक्षितम् / तत्स्मृत्वाऽधुनाऽपि मे मनः शरीरश्च कम्पते / अतोत्र स्थातुं नेच्छामि। तच्छ्रुत्वा तदैव तमिग्रहाय दूतःप्रेषितः / तदाऽऽनीते तस्मिन राजाऊ विचार्यैव भृत्यान सुदर्शनस्य शूलारोपणमादिशत् / लोका हाहावं चक्रुः / तेऽपि तं तत्स्थानं निन्युः। तत्र च यदा ते सुदर्शनमखण्डितशीलवतं शूलिकायामारोपयितुं लग्नास्तदा शासनदेवतया तत्क्षणं तां भकृत्वा सिंहासनमकारि, तच्च देवविमानमिवाधराश्रितमशोभत सुदर्शनोपरि पुष्पवृष्टिर्जाता / येनाऽसौ निर्दोषः शीलवान सुदर्शन उपद्रुतस्तस्याहं शिक्षा करिष्यामि, इत्याकाशवाण्यप्यभूत् / तां श्रुत्वा सर्वे नृपादयः पौराश्चिन्तामापुः / ततो नृपादयः सर्वे सविनयं तत्पदयोः पतन्तस्तद्गुणं गायन्तस्तं महता महेन नृत्यवाद्यादिकं वितन्वन्तो गजारूढ़ विधाय पुरमानिन्युः / ईदृशस्य शीलस्य माहात्म्य केपि वक्तं न शक्नुवन्ति / तस्याऽतुलत्वा- IC58 //