SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ REAMERIKSHARABARI तत्रावसरे मन्त्री जगाद-हे स्वामिन् ! तपेटिकामानाय्य विलोक्यतां तत्र किमस्तीति / नृपोऽपि तथा कृत्वा तामुद्घाट्य करधृतराजीवेणिकं प्रधानपुत्रमपरकरे खरं दधतमपश्यत् / तदर्शनात्सञ्जातविस्मयस्य तस्य राज्ञः क्रोधः प्रशशाम / एतदद्भुतं वृत्तं सर्वत्र पुरे प्रससार / कथमेतदभूदिति ? निर्णय कर्तु कोऽपि नाशक्नोत् / अथाऽज्यदा तत्रागतमेकं ज्ञानिनमेतत्स्वरूपमपृच्छद्राजा / ज्ञानी वक्ति हे राजन् ! एतस्य प्रधानस्य भवान्तरे या पल्यासीत, सा मृत्वा व्यन्तरीभूता प्रधानमेनं क्लेशयितुमेतत्सर्वमकरोत् / परमेष निजोद्यमबलात्तमपि दूरमकार्षीच्च सुखी जातः / अतः सुखेप्सुभिः सर्वैरपि मनुजैः प्रधानतयोद्यमे प्रयतितव्यम् / अथ १४-दान-विषयेथिर नहि धन राख्यो तेम नाख्यो न जाए, इणिपर धन जोतां एव गत्या जणाए / इह सुगुरु सुपात्रे जेह दे भक्तिभावे, निधि जिम धन आगे साथ तेहीज आवे // 39 // धनस्थैर्य नैवाऽस्ति / कृतेऽपि सहस्रप्रयत्ने नैसर्गिकमस्थिरमेतस्थिरतां कदापि नोपैति / इह लोके लक्ष्म्या गतित्रयं वर्तते / 'दानं भोगो नाशश्चेति / तत्र दानभोगौ पुण्यवतामेव भवतः / ये न ददते, न च भुञ्जते, तेषां लक्ष्म्यास्तृतीया नाशगतिर्जायते / अतः सुकृतिनो जनाः सत्पात्रेषु धर्ममार्गेषु च निजां सम्पत्ति व्ययीकुर्वते / तानि दानपुण्यादीन्येव भवान्तरे निधीभ्य तस्याऽनुगच्छन्ति / इह लोके ये ये वदान्या अभूवन तान्दर्शयति // 39 // नल बलि हरिचंदा भोज जे जे गवाए, मह समय सदा ते दानकेरे पसाए। इम हृदय विमासी सर्वदा दान दीजे, धन सफल करीजे जन्मनो लाभ लीजे // 4 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy