________________ धर्मवीर मुक्तावली बोक्तं सत्यापयन्तीव चपला स्थापितयक्षशिरसि पपात / तेनेत्थं तद्भयाद्राजा मोचितः। सर्वे लोका मुमुदिरे / जयजयारावं च वितेनुः। तदनु राज्ञा प्रचुरधनदानेन स नैमित्तिकः सत्कृत्य विसृष्टः / एनां कथां निशम्य भवन्त उद्यमवलं पश्यन्तु / यदुद्यमेन भविष्यदपि मरणभयं राज्ञोऽनश्यत् / इति प्रत्यक्षं तत्फलं पश्यन्तो भवन्तोऽप्युद्यम कुर्वताम् / पुनस्तत्रैव ज्ञानगर्भाभिधप्रधानस्य २९-अपरः प्रवन्धःएकदा सदसि समागतं निमित्तझं नृपोऽपृच्छत् / भो विद्वन् ! काञ्चिद्भविष्यन्तीमपूर्वा वार्ता कथय / सोऽपि ज्ञानतो विचार्य नृपमवदत-हे राजन् ! अद्यतः पञ्चदशदिनाभ्यन्तरे प्रधानस्य प्राणान्तिक: क्लेश आगमिष्यति / इत्याकर्ण्य सभातः स्वगृहं तमानीय प्रधानोऽपृच्छत् / हे निमित्तज्ञ ! मम कस्मादुत्पत्स्यते क्लेश इति वद / तेनोक्तम्-यस्ते ज्येष्ठः सुतस्तस्मात् / अथ मन्त्रिणा सत्कृते तस्मिन् गते, मन्त्रिणा पुरुषप्रमाणैका काष्ठपेटिका कारिता / तत्र खाद्य पेयं निक्षिप्य ज्येष्ठपुत्रमाहूयः सर्वमेतजगौ / सोऽपि विनीतः पितुराज्ञया तस्यामविशत् / ततस्तां सार्गलां विधाय सेवकेन नृपान्तिकमनीनयत् / उक्तश्च हे महाराज ! मम विपदागामिन्यस्ति / इति सम्पच्या किम् ? अत एनां सम्पदं भवत्पार्श्वे स्थापयितुमनयम् / इत्युदीर्य तत्कुचिकां तस्मै दवा जगाद / हे स्वामिन् ! एषा पञ्चदशदिनानन्तरमुद्घाटनीया / तदनु स मन्त्री राजानं नमस्कृत्य चैत्यमेत्य जिनेन्द्रं स्तोतुमलगत् / एवमाचरतस्तस्य तानि दिनानि व्यतीयुः / राज्ञाऽपि सा मञ्जूषाऽन्तःपुरे न्यासिता / अथैकदाऽन्तःपुरस्थिततत्पेटिकामध्यादेवं शब्दः प्रादुरासीत् / यथा-श्या वेणी प्रधानपुत्रकरगता जाता तदाकर्ण्य कोपाद्रक्ताक्षो नृपो दूतेन प्रधानमजूहवत् / तदादेशात्तदानीमेव स दूतस्तद्गृहमागत्य मन्दिरस्थं तं ज्ञात्वा तत्रागत्य तं नृपान्तिकमनयत् / तमागतं वीक्ष्य नृपो विमुखीभ्य तस्थो / | // 56 //