________________ मुजावली युध्यन्ते, तथैव तौ श्वशुरजामातरौ विवादं सदैव नृपाग्रेऽकुरुताम् / एकस्योबतिमपरः कदापि मनागपि नासहत / अथैकदा तौ / नृपेणैवं भणितो, यथा भोः पण्डितौ ? युवाकाश्मीरदेशं यातम् / तत्र द्वयोर्मध्ये यं सरस्वती समस्यते तमधिकमपरं हीनमहं ज्ञास्यामि / इति नृपादेश लात्वा तावुभौ काश्मीरम्प्रति चेलतुः / मार्गे च तावोकारनाथस्य शिवस्य मठे धान्यभारमुद्हतः पञ्चदशशतान् वृषभान ( पोठीतिलोकभाषाप्रसिद्धान् ) अपश्यताम् / तानालोक्य तौ तद्वाहकानपृच्छताम् / किम्भोः ! यूय-12 | मेतेषु वृषभेषु भृत्वा कुत्र किमर्थ नयथ ? तैरभाणि / एतानि श्रीओङ्कारक्षेत्रे वृत्तिधान्यानि नीयन्ते / तनिशम्य तत्काल तो साश्चयौं जाती। पश्चादने वजन्तौ तौ रात्रौ कुत्रापि सुषुपतुः / तदा तो गगनस्था शारदा एतां समस्यामपृच्छत् / यथा 'शतचन्द्र नभस्तलम् / तदाकर्ण्य वाणकविस्तामेवमपूर्यत / यथा दामोदरकराघात,-विकलीकृतचेतसा / दृष्टश्चाणूरमल्लेन, शतचन्द्र नभस्तलम् // 1 // इत्याकर्ण्य मयूरकविहुंकारं कुर्वन् तत्समस्यामन्यथापूरयत / तदा पुनराकाशवाण्यभूत / यथा-येन प्रथमं समस्यापूरि, सोऽधिकः / अपरस्तु हुङ्कारनादं वितत्य तत्पूर्ति व्यधादिति सोऽल्पीयान् कविः, इति सरस्वतीविहितजयपराजयौ तौ प्रभाते समुत्थायोजयिनीप्रभु भोजराजं शारदादत्तविजयं निवेद्य बाणकविः प्राधान्यमनयत, ततःप्रभृति नृपसदसि बोणस्य महीयसी प्रतिष्ठा जाता। -अस्मिन् कथानके बाणमयूरौ श्वशुरजामातरावभूतामिति विचारणीयम् / 'प्रबन्धचिन्तामणिग्रन्थे' भोज-भीमप्रबन्धे स्पष्टतरमित्थमुछिखितम्-गतप्राया रात्रिः कृशतनुशशी शीर्यत इव, प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव / प्रणामान्तो मानस्त्यनसि न तथापि क्रुध // 51 //