SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ॐॐॐBMS तथा विद्यया सकलमपीदं विश्वमनुरज्यते / इत्थं हि नूनमितरधनाद्यपेक्षया पुंसां विद्यैवाऽक्षय्यकोशकल्पा प्रतीयते / यतो धनादिकं | व्ययिते हीयतेऽसौ तु भृशं व्ययिताऽपि समेधते / तथा विद्या हि श्रियो निदानमस्ति, सा विद्या सकलतत्वविलोकने विदुषां हृदयभवने महादीपायते / अतो हे लोकाः ! यूयमवश्यं विद्वद्वर्यसद्गुरुसन्निधौ विद्यां शिक्षध्वम् // 33 // सुर नर सुप्रशंसे विद्यया वैरि नासे, जग सुजस सुवासे जेह विद्या उपासे / / जिण करि नृप रंज्यो भोज बाणे मयूरे, जिण करि कुमरिंदो रींजव्यो हेमसरे // 34 // किञ्च-विद्वांसः सुरैर्नरादिभिश्च प्रशस्यन्ते / महात्मभिस्ते सक्रियन्ते / नृपसदसि ते मानमधिकमाप्नुवन्ति / ते विद्याबलेन जितारयो जायन्ते / ये विद्यामुपासते तेषां जगति स्फीतं यशो विततं भवति / ते च विद्याधनमतुलं प्राप्यानुपम सुखमधिगच्छन्ति / यथा पुरा किल बाणमयूरो विद्यया भोजनृपं भृशमतूतुषताम् / यथा सत्प्रतिभावुद्धिसनिधिः श्रीमद्धेमचन्द्राचार्यों विद्यया कुमारपालं नरपालं भृशं सन्तोष्य प्रतिबुद्धमकरोत् / तथाकृतेऽन्येऽपि विद्यामादरेण शिक्षन्ताम् // 34 // अथ विद्यया भोजनृपं तोषयतोर्याणमयूरयोः २७-प्रबन्धःअस्मिन्नुज्जयिनीनगरे भोजराजसभायां बाणमयूराभिधो मिथः श्वशुरजामातरौ विद्वांसावभूताम् / तौ विद्यामदोन्मत्तौ सदैव नृपसदसि समागतो विवदभानो चैकस्य प्रशस्तिमपरोऽसहमान आसीत् / यदाह'न सहति इक्कमिकं, न विणा चिट्ठति इक्कमिक्केण / रासहवसहतुरंगा, जूआरी पंडिआ डिंभा // 1 // अस्या अयमर्थः-समा वृषभास्तुरङ्गा द्यूतकारिणः कोविदाः शिशवश्चैते यथैकत्र न तिष्ठन्ति, यदि तिष्ठन्ति तर्हि मिथो
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy