________________ एकएकाक्ली॥५३॥ SEEBERRACCIAL दिशत् / तदा कुमारो नृपमवादीत-भो महाराज ! एतस्मै शिक्षा माऽदिक्षः / एतत्पार्श्वे द्वे विद्ये स्तः। यत्साहाय्येन फलानि चोरितानि, ते गृहीत्वैनं मुश्च / ततो नृपस्तमवक्-तहि मे ते विद्ये देहि / सोऽपि मृत्युभीतिमुपेतस्तदा मन्त्रोच्चारणं व्यधात् / किन्त्वविनयादिदोषेण नृपस्तदुचारितं तन्मन्त्राक्षरं हृदि धतु नाऽशक्नोत् / तदा मन्त्री जगाद-अविनयेन विद्या न गृह्यते / भवान विनयेन सिंहासनानीचैरवतीर्य कृताञ्जलिस्तिष्ठनेनं सत्कृत्य गुरुबुद्ध्या सिंहासनमुपवेशयतु, तदा विद्या समेष्यति / अथ राजा तथैव विधाय विनयेन ते विद्ये जग्राह / तस्मिन्नवसरेऽभयकुमारेणोक्तम्-हे राजन् ! असौ तस्करो नीचकुलजातोऽपि विद्याशालित्वात्पूजनीयोऽस्ति सम्प्रति गुरुत्वादपि विशेषतः / नीतिशास्त्रेऽपि यदुक्तम्- . एकाक्षरप्रदातारं, यो गुरुं नैव मन्यते / श्वानयोनि शतङ्गत्वा, चाण्डालेष्वपि जायते // 1 // ___ अधुनाऽसौ ते गुरुरजायत, इत्येनञ्जीवितप्रदानेनाऽभयं कुरु / ततो राजा तं मुक्त्वा लक्षदीनारं तस्मै दत्तवान् / अनया कथया विनयस्य प्राधान्यमवगन्तव्यम् / स नृपोऽपि यदा विनयमकरोत्, तदा तन्मुखोच्चारिता विद्या चटिताऽभूत् / किञ्च-विनयसहिता स्वल्पाऽपि विद्या लोके बहु विस्तृणाति / अतः सद्विनयमूलधर्मरुचिनिमग्नः सद्भव्यैः सर्वैरपि सदैव विनये यतितव्यम् / अथ ११-विद्याविषयेअगम मति प्रयुंजे विद्यया को न गंजे, रिपुदल बल भंजे विद्यया विश्व रंजे / धनथि अखय विद्या सीख एणे तमासे, गुरु मुख भणि विद्या दीपिका जेम भासे // 33 // विद्यावन्तो नराः कदापि धूर्तादिलोकैनैव वञ्च्यन्ते, तथा सद्विचारयोगाने रिपुदलानि महान्त्यपि लीलया क्षणादेव जयन्ति, portion