SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ RABAR प्रतिज्ञापूरणाय समादिशत् / उभावपि सत्यशीलो धन्यो नमस्याहौँ / अत एतस्याः शीलं रक्षणीयमेवेति विचार्य सोऽपि तस्यै भगिनीधिया वसनाऽभरणादिकमदात् / कथितश्च त्वं धन्याऽसि, भगिनि ! त्वं निजालयं व्रज / अथ तन्मुक्ताञ्खण्डितशीला धनश्रीस्तद्राक्षसमागत्याऽमिलत् / सोऽपि सत्यवचनां तामवेदीत्, पुनर्मालाकृता यदाचरितं तदपि तन्मुखादाकर्ण्य तां प्रशस्य वस्त्राऽऽ. भरणैः सत्कृत्य गृहगमनाय समादिशत् / अथ राक्षसेन सत्कृत्य मुक्ताभक्षितांगी सा चौरान्तिकमागता / तेऽपि तां सत्यवचनां सुशीलां मत्वा हृष्टाः सन्तो वस्त्राऽऽभरणादिभिः सत्कृत्य मुमुचुः / इत्थमखण्डितशीला निर्विघ्नेन भर्तुरन्तिकमागात् / तस्मै च यथाजातं वृत्तं सर्व निवेदयामास / तदाकर्ण्य भाऽपि सा सम्मानिता / तत्राऽभयकुमार इत्युदीर्य सर्वानपृच्छत् / भो भो लोकाः ! यूयं विचार्य कथयत, अत्र दुष्करं कर्म केनाकारि ? तत्राऽवसरे कियन्तो विषयैषिणोऽधीरा नरास्तस्याः पति प्रशशंसुः / कियन्तः कामुकाः समागतां नवोढामतिसुन्दरीं तां त्यजन्तं तमारामिक तादृशमतिदुष्करं कृत्यमनुष्ठातुमादिशन्तं तद्भारश्चाऽस्तुवन् / कियन्तस्तं मांसलोलुपं राक्षसम् / ततो येनाऽऽम्रफलानि चौरितानि, स एक एव ताञ्चौरानवर्णयत् / ततोऽभयकुमारो दूतेन तं नरं स्वान्तिकमानाय्य गतेषु लोकेषु बद्ध्वा कारागारनिवासमादिशत् / तदानीं कुट्टितस्तर्जितः स कुमाराग्रे निजमुखेन तदानचौर्यमङ्गीकृतवान् / तदा पुनस्तं कुमारोऽपृच्छत्--किमरे ! तत्तरोः सा शाखा तुङ्गत्वे गगनञ्चुम्बति, त्वया तत्फलानि कथञ्जगृहिरे ? किञ्च तिष्ठत्सु तेषु रक्षकेषु तमारामं प्राविशः कथम् ? / सत्यकथय, तदा भयेन भृशकम्पमानः सोऽजक--हे स्वामिन् ! मम द्वे विद्ये वर्तेते / एका चोन्नतमपि करस्पृश्यं करोति, अपरा तं तथाऽवस्थं करोति, ताभ्यां मया तत्फलानि गृहीतानि / ततो मन्त्री तञ्चौरं नृपान्तिकमनयत् / नृपोऽपि तं महापराधिन मत्वा तदुचितां शिक्षामा
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy