________________ परिणीता सा पतिगृहमागता निशि पतिपार्श्वमुपेता, निजप्राणनाथमेवं व्यजिज्ञपत्-हे प्राणेश्वर ! अहं योग्यपतिकामनया यक्षममुक्तावली-1 चितुं कस्यचिन्मालाकारस्य पुष्पाणि च्छन्नं गृह्णती तेनैकदा गृहीता, निरुपाया सति लग्ने त्वया प्रथमं मत्पार्श्वमागन्तव्यमिति 4 // 52 // तद्वचनमशीकृतवत्यस्मि / अतस्तत्र गंतुमधुना मामनुजानीहि / ततो भाऽऽज्ञप्ता सा षोडशशृङ्गारसज्जिता तत्र गन्तुमेका किनी प्रतस्थे / मार्गे च तस्याश्चौरा अमिलन, ते तदाभरणानि लुण्टयितुमीषुः / तदा सा तानेवमवक्, हे चौरा ! मामिदानी मुञ्चत, अहङ्कस्यचिन्मालाकारस्य समीपं कृतां प्रतिज्ञां पूरयितुं भर्ताऽऽदिष्टा व्रजामि, तत्र गत्वा प्रतिज्ञां पूरयित्वा पश्चादागमिप्यामि / तदा युष्माभिरेतानि मदाभरणानि ग्राह्याणि / इत्थं तत्कथामाकर्ण्य ते ताममुञ्चन् / तदने कश्चिच्चिरबुभुक्षित एको राक्षसस्तामालोक्य मुखं व्यादाय भक्षितुमधावत् / तदा सा तमपि निजवृत्तं सर्व निवेद्याऽनुनीय तमेवमप्रार्थयत् / भो राक्षस ! इदानीं कृतां प्रतिज्ञां पूरयितुं व्रजन्ती मां मुञ्च, तत्र गत्वा प्रतिज्ञां परिपूर्याऽनेनैव मार्गेणाऽचिरादहमेष्यामि / तदाहं भक्षणीयेति तद्वचः श्रुत्वा तेनापि मुक्ता सा, तन्मालाकारस्याऽन्तिकमागात् / सोऽपि तदागमनं प्रतीक्षमाण आसीत् / तामागतां सोऽपृच्छत्हे सुन्दरि ! त्वमिदानी पतिमापृच्छय समागतासि उत ततश्ठव, तदा साऽऽख्यत्-मयैतत्सर्व पत्ये निवेदितम् / तदनु तेनाऽऽदिष्टा त्वदन्तिकमागच्छामि / ततश्छन्ना न, यतो यो हि स्ववचनं विफलीकरोति, तस्य जीवितमपि सनिन्द्यते / जीवितादपि निजप्रतिज्ञापालने भव्यैः प्रयत्यते, इति प्रतिज्ञाम्पूरयितुमहमत्राऽगतास्मि त्वमपि यथोचितं विधाय मामनुगृहाण / | इति तस्या वचनमाकलय्य मनसि चमत्कृतः स व्यचिन्तयत् / अहो ! धन्या किलेयम्प्रतीयते / या हि-दत्तवचनरक्षार्थमतिदुष्करमपि चिकीर्षति / तथैतस्या भर्ताऽपि धन्यतरः / यो हि नवोढामीदशी त्रिभुवनातिशयसौन्दर्यरत्नाकरायितामतिप्रेयसीमीटक् R$$BSDESIGN // 52 //