________________ .. अथ १०-विनयगुणविषयेनिशि विण शशि सोहे ज्यूं न सोले कलाई, विनय विन न सोहे त्यूं न विद्या बड़ाई। विनय वहि सदाई जेह विद्या सहाई, विनय विन न कांई लोकमां उच्चताई / / 31 / / यथा-पोडशभिः कलाभिः परिपूर्णताङ्गतोऽपि शशी रजनीं विना न शोभते, तथा विनयं विना सकला समधिगता विद्यापि नैव शोभां धत्ते / अयमाशयः-लोके हि-विद्यावान महानपि सत्येव विनये प्राशस्त्यमुपैति / अतः सकलगुणापेक्षया विनयः श्रेयानस्ति / किञ्च-तं विना महान्तोऽपि जना लोक औनत्यं प्राशस्त्यं महीयसी सती कीर्तिच नाप्नुवन्ति / अतः सर्वैविनय आश्रयितव्य एव॥ 31 // विनय गुण वहीजे जेहथी श्री वरीजे, सुरनरपति लीला जेह हेला लहीजे / जगति पर-शरीरे पेसवा जे सुविद्या, विनय गुणयि लाधी विक्रमे तेह विद्या // 32 // तथा-इह लोके-विनयगुणाल्लक्ष्मीर्वश्या जायते, तत्प्रभावादेव लोका राज्यसुखादिकमनायासेन किलानुभवन्ति / यथा विक्रमार्को राजा विनयेन परकायप्रवेशिनी विद्यामाप्तवान् // 32 // विनयगुणोपरि विक्रमराजस्य २५-कथा दर्यतेयथा-शाकेतनगरे विक्रमाभिधो राजा राज्य शास्ति / स चैकदा निजकर्मपरीक्षाकृते राज्यकार्य मन्त्रिणे समर्प्य देशान्तरं प्रतस्थे / तत्राऽन्यदा कियद्भिर्दिनैः स एकम्पर्वतमपश्यत् / तत्र गत्वा तपस्यन्तमेकं योगिनमद्राक्षीत्, ततस्तं भक्त्या नमस्कृत्य -- XCXERCH