SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ धर्मवर्ग:१ सूक्तमुक्तावली // 48 // यथैकदा पञ्चापि पाण्डवाः सभायां सुखासीना आसन् / ते च नगरेऽष्टाशीतिसहस्रतापसानामागमन शुश्रुवुः / ततस्ते सर्वे तैर्निमन्त्रिताः / परं ते तापसा ग्रीष्मतापसन्तप्ता आम्रफलैरेव पारणश्चिकीर्षन्ति स्म / तेषां तामिच्छामाकर्ण्य पाण्डवा महतीचिन्तामधिगताः / अहो ! साम्प्रतमकाले रसालफलानि कुतो लभ्यन्ते ? / येनाऽस्माकञ्चिन्तितं सिद्धयेत्, तत्रावसरे नारदर्षिस्तत्रागात् / स तांश्चिन्तातुरान वीक्ष्यावदत् / भोः पाण्डवाः अद्य वः का चिन्ता समापतिताऽस्ति / ते जगदुः-हे महर्षे! अद्यास्माभिरष्टाशीतिसहस्रतापसा निमन्त्रिताः। ते चानरसेनैव व्रतपारणश्चिकीर्षन्ति / इदानीमसमये तानि लब्धुं न शक्यन्ते / इति चिन्ता नो जाताऽस्ति / यदि तांस्तद्रसैन भोजयेम तहि नः प्रतिज्ञा भग्ना स्यात् त्वं समर्थोऽसि, तदुपायं वद / तदा नारदो जगादतमुपायं वच्मि, यूयं शृणुत / ते सभूचिरे सत्वरं ब्रूहि, हे पाण्डवाः ! यदीदानीं शुष्कमाम्रबीजं रोपयेत्, तदङ्कुरीभूय झटिति वर्खेत, फलपुष्पादिकं जायेत तेषाम्परिपक्वफलैरेतेषां पारणं सम्भवेदन्यथा कोऽप्यन्यो नास्त्युपायः / एनमप्यसम्भवं मत्वा ते तच्चिन्तां न तत्यजुः / पुनस्ते नारदञ्जगदुः-हे ऋषे ! यदुक्तं भवता तदपि नो दुष्करमेव प्रतिभाति / तेनोपायान्तरेणैतत्त्वमेव सत्वरं सम्पादय / नो चेदस्माकं प्रतिज्ञाहानिर्भविष्यति ! तदोक्तं नारदेन / हे कौन्तेयाः 1 मा शोचत / अहमिदानीं त्वत्प्रेयसी द्रौपदी सर्वमेतभिगदामि / यदि सा सत्यं वक्ष्यति तदा तदर्थमहं यतिष्ये / इति तनिगद्य तत उत्थाय स द्रुतं द्रौपदीभवनमगमत् / तत्र गत्वा तत्सर्व तस्यै निवेद्य यत्प्रष्टव्यमासीत्तदपृच्छत् / नारदोक्तं सर्वमाकर्ण्य द्रौपद्यवक् / हे महर्षे ! अहं किल त्वदग्रे सत्यं वच्मि / अहं सत्यशीलाऽस्मि, भतुः प्रतिज्ञां पूरयितुं शक्नोमि / अत्र मनागपि सन्देहं मागाः। ततस्तां सोऽवक्-अयि पाश्चालि ! यद्येवमस्ति / तर्हि सत्वरमेकं शुष्कमानबीज रोपय, निमशीलप्रभावेण तत्सपल्लवीकृत्य फलान्यं विधेहि / ततः सापि तत्कालं SRXXXSEXSAXE // 18 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy