________________ महती वेदनां सेहे / सर्वा अपि शरीरनाड्यस्तटतटिति त्रुटिता अभूवन् / तथापि लेशतोऽपि तस्मै द्वेषमकुर्वन् क्षमामधिगच्छन्नसह्यामपि वेदनामसहत / तत्कृतापकारमुपकारं मत्वा कर्मजालं क्षपयन मोक्षं ययौ / अतो हे लोकाः ! सुधामयी मत्वा तामेव क्षमा त्रिकरणशुद्धथा यूयं मनसि धरत / येनेहामुत्र च सुखमनुभूय प्रान्ते मोक्षमाप्स्यथ / __अथ ७-त्रिकरणचित्तशुद्धिविषयेजग जन सुखदाई चित्त एवं सदाई, मुख अति मधुराई सांच वाचा सुहाई। वपु परहित हेते तीन ए शुद्ध जेने, तप जप व्रत सेवा तीर्थ ते सर्व तेने // 25 // येषां मनसि सदैव जगज्जीवकल्याणचिकीर्षा जागर्ति / वाणी चाऽमृतमयी मिष्टतरा शुभङ्करी सत्या विलसति शरीरश्च सकलजीवोपकारि वर्तते / इत्थं त्रिकरणशुद्धस्यैव प्राणिनस्तपोजपव्रतसेवनतीर्थाटनानि सफलीभवन्ति / / 25 // मन वच तनु तीनों गंग ज्यूं शुद्ध जेने, निज घर निवसंता निर्जरा धर्म तेने। . जिम त्रिकरण शुद्ध द्रौपदी अंब वाव्यो, घर सफल फलंतो शीलधर्मे सुहाव्यो // 26 // किच-यस्य मनोवचनकाययोगा गङ्गाम्बुवनिर्मलाः सन्ति, तस्य सागारस्यापि कर्माणि विलीयन्ते / सकलापि मनोवाञ्छा पूर्यते / परत्र चाऽक्षय्यं सुखमाप्नोति / यथा त्रिकरणविशुद्धा द्रौपदी तत्कालमकालेप्यानं फलाढ्यमकरोत् / ततस्तस्याः शीलमाहात्म्यं पप्रथे, पाण्डवानां गृहीता प्रतिज्ञा च पूर्णाऽभूत् // 26 // अथ सुशालविषये द्रौपद्याः २४-कथा दयते