________________ का 4G- धर्मवर्ग:१ बक वयसा कथमेवं संयम पालयिष्यति / भवतु, प्रमे प्रभोरन्तिकं गत्वा तदुचितमुपाय विधातास्मीति / ततो जाते प्रभाते प्रभोमुक्तावली वन्दनार्थमागतः कृष्णः सर्वान् साधूनालोक्य गजसुकुमालमपश्यन् भगवन्तमप्राक्षीत-हे भगवन् ! मम बन्धुर्गजसुकुमाल: ॥४७॥ात कुत्रास्ते / भगवानाख्यात, हे कृष्ण ! सोऽक्षय्यसुखभोक्ताऽभूत् / तं द्रष्टुं कथं शक्ष्यसि ? तदीयदर्शनमधुना दुर्लभमभूत् / सिद्धि एदमुपेतं तमित एवं नमस्कुरु / तदाकर्ण्य कृष्ण ऊचे हे भगवन् ! ईदृशीं तात्कालिकी सिद्धि स कथमाप ? / तस्य तथा साहाययकारी को मिलितः१। येनाऽस्य तत्कालं सिद्धिरुदियाय / ततः पर्यन्ते केवलीभवन शाश्वतसुखकारी समभूत् / ततो विश्वविश्वजन्तूपकारविधाननिमग्नात्मा प्रभुरवक् / यथा त्वङ्गतेऽहनि गजारूढः पथि व्रजन पथि स्थितानीष्टकानि त्वत्सैन्यप्रतिबन्धभिया समुत्थापयतो यवीयसः कस्यचन द्विजस्य गजादुत्तीर्य साहाय्यमकरोः। अर्थात्वयैकस्मिन्निष्टके करेण गृहीते तदनु त्वत्सैन्यैः षोडशसहस्रस्तानीष्टकानि तदिष्टदेशे नीत्वा तत्साहाय्यञ्चक्रे / तथैव त्वद्वन्धोरपि साहाय्यमभूत् / परन्तु तत्र कार्येऽस्ति भेदः / पुनयंगदस्कृष्णः- हे भगवन् ! तस्य नाम बहि, य एवमकरोत् / भगवतोक्तम्, हे वासुदेव ! त्वदर्शनेन यस्य हृदयं स्फुटेत सैव एतत्कर्मकर्ता ज्ञातव्यः / अथ प्रभुं नमस्कृत्य गृहम्प्राचलद्वासुदेवः / मार्गे च सोमिलो महामुनिघातकी पातकी च मिलितः, ततः श्मशानतो निर्गच्छन् कृष्णमालोक्य मनसि दध्यौ / अहो! एष वासुदेवो याति, अस्मदीयमेतत्कर्म जाननसौ मां हनिष्यति / अत एतन्मार्ग हित्वा मार्गान्तरेण व्रजेयमिति विचिन्त्य तथागमत् / परं तन्मार्गेषापि गच्छतस्तस्य वासुदेवविलोकनात्तत्कालमेव तद्धदयं विदीर्णमजा| यत / सोऽपि सद्यो मृत्वा मुनिघातपातकानरकमियाय / एतस्याः कथाया एतदेव सारतया सर्वैरादेयम्, यदसौ सोमिलो गजसुकुमालमहामुनेः शिरसि खदिराङ्गारमक्षिपत् / तेन स