________________ स मातरमवोचत / यथा हे मातः 1 तव मनोरथः सेत्स्यति / मा शोचीः, तयोक्तम्-एवमस्तु / ततस्तस्याः PI कुक्षौ कश्चित्पुण्यशाली चरमशरीरी जीवोऽवततार / सा तत्प्रभावतः स्वप्ने गजमपश्यत् / ततः पूर्णे मासे सा पुत्रम सोष्ट / स्वप्नानुसारेण तस्य गजसुकुमाल इति नाम चक्रे / एवं च महान्तं तदीयजन्मोत्सवं विदधे / क्रमेणाष्टवार्षिक: स तन्नगरीयसोमिलब्राह्मणस्य पुत्र्या सह परिणायितः / तदैव तत्र नेमिनाथो भगवान् समवसृतः। तद्वन्दनायै श्रीकृष्णदेवकीप्रभृतयः सर्वे तत्राऽऽययुः / तत्र देवविरचितसमवसरणे प्रभुः संसारासारत्वविषयिणी देशनामदात / तदाकर्ण्य गजसुकुमालस्य वैराग्यमुदपद्यत / ततो मात्रादेरनुमत्या स तदैव प्रभोः समीपे संयम जग्राह, तस्यामेव निशायां प्रभुं पृष्ट्वा श्मशानभूमिमागत्य कायोत्सर्गध्यानमकरोत् / तावत्तत्र तस्य श्वशुरः सोमिलोऽपि समागतः / स तं वीक्ष्योवाच-अरे पापिष्ठ ! त्वं मम पुत्रीजन्म मुधाऽकरोः / तत्फलमधुना तेऽहं ददामि / इत्युदीर्य तत्कालमेव तटस्थतटाकतः पङ्कमानीय तस्य मुनेमौलौ पालीमवध्नात् / ततस्तदुपरि | मृण्मयभाण्डखण्डानि न्यस्य जलत्खदिरागारं प्रचुर निक्षिप्तवान, स्वयमपि स दुर्थीस्तत्पार्श्वमेव तस्थौ / शमाऽम्भोनिधिर्गजसुकुमालमुनिः शिरसि ज्वलदग्निना 'तटतटिति' नाडीषु त्रुट्यन्तीपि तत्क्लेशं सहमानस्तस्मै श्वशुराय सोमिलाख्यद्विजाय मनागपि न द्वेष्टि / प्रत्युत तत्कृतमहापकारमुपकारममन्यत / यथाऽसौ ममैतद्भवं निस्तारयन् परमसखोजायत / अग इव निश्चलमनाः सर्वमपि दुःखजालं सहमानो जीवेषु दयोद्रेकमातन्वानः क्षपकश्रेणीमधिगच्छन् शुद्धमध्यवसाययन् शुक्लध्यानं विदधत्पर्यन्ते केवलीभूत्वा मोक्षमाप्तवान् / इतश्च श्रीकृष्णः स्वमनसि तत्र निशि किलैवमचिन्तयत् / अहो ! मम बन्धुः संयमग्रहणेन महीयानभूत् / परमनेन लघुना