SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली // 46 // वीक्ष्य तया चिन्तितम्-अहो ! साधवो ह्यधिकाऽऽहारापेक्षणे कदाचिद् द्वितीयवारमागच्छन्ति / तृतीयवारं तु कदापि नागच्छन्ति / एतौ कथं मुहुर्मुहुराजग्मतुः ? पुरीयं महती वर्तते / श्रावका अपि बहवो विद्यन्ते / इत्थं वितर्कयन्ती सा यावत्तयोरभिमुखं तस्थौ / तावता ताभ्यामवादि / अयि महामाग्ये ! त्वं किं शोचसि ? तयोक्तम् हे मुनी! युवां संसारमसारं मत्वा प्रभोः पार्श्वे दीक्षितावेकत्रैव गृहे तृतीयवारं कथमागतो? / एतेनैव मम मनसि विचारणा जातास्ति / तौ जगदतुरस्माकं संघाटकत्रयं मा वर्तते / अतो वयं पृथक पृथक् समागताः स्मः / त्वया मनागपि न सन्दिग्धव्यम् / इति श्रुत्वा पुत्रवत्स्नेहस्तस्यास्तदुपरि प्रादुरा सीत् / स्तनयोः क्षीरमागतम् / ततः सहर्ष सा तावपि मुनी ताने मोदकान् प्रत्यलाभयत् / अथ गतयोस्तयोः साघोः सा तदैव मनोगतसंशयं निराकर्तुमर्थात् कथं तेषु षट्सु साधुषु पुत्रप्रेमोद्रेकोऽभूदिति प्रभोः पार्श्वनागत्य वन्दनादि विवाय प्रामपृच्छत् / भगवानवोचत-तव षद्पुत्रान कंसात त्रस्तान देवता सुलसाया गृहे नीतवती / त एवानी पड्मुनयः सन्ति / तच्छ्रुत्वा गृहागता साऽऽर्तध्यानार्ताऽभवत् / यथा मम पदपुत्रा जाताः, ते च सुलसागृहे पालिता अभूवन् / सप्तमोऽमें कृष्णो नन्दगृहे वृद्धिङ्गतः। मयैकोऽपि न लालितः, न वा पालितः। इत्थं शोचन्तीं तां श्रीकृष्णः पप्रच्छ / अयि मातः ! त्वमद्य चिन्तातुरा कथं | प्रतिभासि ? तव किञ्जातम् ? यदेवं शोकाकुला रोदिषि / तदा देवक्या निःश्वस्पोक्तम्-हे वत्स ! मम कुक्षेः सप्त सुता उत्पेदिरे / परमेकस्यापि लालनपालनादिकं मया नाकारि / तेनेदशी चिन्ता मे जातास्ति / तदाकर्ण्य स मातरमाश्वासयामास / पश्चात्स्वयमष्टमं तपोऽकरोत् / तत्र हरिनैगमेषी समाराधितः / तदाराधनेन तुष्टः सोऽपि तत्कालमागत्य निजाराधनकारणं तमपृच्छत् / कृष्णोऽपि निजमातुः पुत्रचिन्तामवोचत / देवोत्र-पुत्रो भविष्यति, परं प्रथमे वयसि संसार त्यक्ष्यति / तत एतत्स्वरूपं // 46 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy