________________ धर्मवः१ मुक्तावली-| // 41 // ORRECORRECTS तिमुद्रिकां देहि / मातरं मिलित्वा पुनर्याहि / तच्छ्रत्वा मुद्रिकां दत्त्वा तेनोक्तम् / अयि प्रिये ! एनां गृहाण / अहमचिरादागमिष्यामि का ते भीतिः 1 / इत्यालप्य स शिबिरं प्राप्तः / सापि ऋतुस्नानात्तद्दिन एव दिव्यं गर्भ दधार / ततोऽन्वहं गर्भ-3 वृद्धिमालोक्य श्वशुरादिपरिवारो दध्यो / अहो ! इयम्मे कुलङ्कलङ्कितमकरोत् / अस्या भर्ता तु द्वाविंशतिवर्षमध्ये एकदापि न मिलितः / कथमियमन्तवत्नी दृश्यते ? नूनमसती जाता। तत एतत्स्वरूपमञ्जनामपृच्छत् / सा तद्दिने यथा भर्ता शिबिरादागत्य स्वनामाङ्कितां मुद्रां दत्त्वा पश्चाद्यो मचलत्तथा सर्वमाख्यत, परं तद्वचः केऽपि न मेनिरे / सर्वे च लोकास्तां निर्भर्त्य गृहानिष्काशयामासुः / ततो निष्काशिता सा पितृसम समागता / तेऽपि तत्स्वरूपं विदन्तस्तां कुलकलङ्किनी मन्यमाना निर्भ य॑ गृहानिष्काशयामासुः / ततः सर्वतो निष्काशिताऽञ्जनासुन्दरी वनमागत्य कुत्राऽपि तस्थौ / तत्रैव कुत्रापि गहरे पुत्रमसोष्ट / अथैकदा तेनैव मार्गेण विमानारूढस्तन्मातुलो वजन गिरिगहरे शिशुरोदनमाकलय्य विमानादवतीर्य तत्र गत्वा तामपश्यत् / तस्या आदितः सर्वमुदन्तं निशम्य सपुत्रां तां निजविमाने समावेश्य ततोऽग्रे चचाल / मार्गे च मातुरङ्के स्थितः शिशुः किञ्चिल्लातुमुच्छलन्नधः शिलोपरि पपात / पतन्तं तं वीक्ष्य व्याकुलस्तन्मातुलो यावद्विमानादवतीर्य तमादातुमधस्तत्रागतः, तावत्तत्र वज्राहतवच्चूर्णितां शिलां पश्यन् बालकमक्षताङ्गमेव हसन्तमग्रहीत् / ततस्तमादाय निजविमानेऽञ्जनाय ददौ / ततस्ताभ्यां सह स हनुपुराभिधं निजनगरमागतः / ततस्तदीयनाम मात्रा हनुमानिति चक्रे / विमानात्पतन स शिला सञ्चूर्णितवान्, अतो द्वितीयं नाम श्रीशैल इति धृतवती / एतत्कथा रामचरित्रादौ सविस्तरमस्ति / इतोऽधिका तत एवाऽवगन्तव्या / इह तु यावत्युपयोग *ORNO